________________
१५८) अ. ७. सू. १५ ] काव्यानुशासनम्
मत्सरी असहनः । मन्त्रादिबलेनाविद्यमानवस्तुप्रकाशको मायी। छम वञ्चनमात्रम् । रौद्रश्चण्डः । अवलिप्तः शौर्यादिमदवान् , यथा जामदग्न्यरावणादिः। (18) देवा धीरोद्धता ज्ञेयाः स्यु/रललिता नृपाः ।।
सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ धोरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा ।
इति चत्वार एवेह नायकाः समुदाहृताः ॥ [ना. शा. अ. ३४. श्लो. १८-१९ (C. S. S.); अ. २४ श्लो. ४-५ ( N. S.)]
देवा धीरोद्धता इति । अत्र हि । धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः ॥ ५८१॥
इत्यादेर्दर्शनाजनकप्रभृतीनां रामादीनां च न धीरललितत्वमुचितमिति धीरललितत्वं राज्ञ एव वर्णनीय नान्यस्य । सेनापत्यमात्ययोधीरोदात्तत्वमेव । देवानां धीरोद्भतत्वमेव । द्विजादीनां धीरप्रशान्तत्वमेवेत्येवं परं व्याख्येयम् ।
धीरोद्धतादिशब्दाच यथोक्तगुणसमारोपितावस्थाभिधायिनो वत्सवृषमहोक्षादिवन्न जात्या कश्चिदवस्थितरूपो धीरोद्धतादिरस्ति । तत्त्वे हि महाकविप्रबन्धेषु विरुद्धानेकरूपाभिधानमसङ्गतमेव स्यात् । जातेरनपायित्वात् । तथा च भवभूतिना एक एव जामदग्न्यः 'कैलासोद्धारसार-'इत्यादिभी रामादीन् प्रति प्रथमं धीरोद्धतत्वेन, पुनः 'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये' इत्यादिना रावण प्रति धीरोदात्तत्वेन, 'पुण्या ब्राह्मणजाति:-' इत्यादिमिश्च धीरशान्तत्वेनो- २० पवर्णितः । न चावस्थान्तराभिधानमनुचितम् । अङ्गभूतनायकानां नायकान्तरा. पेक्षया महासत्वादेरव्यवस्थितत्वात् । अङ्गिनस्तु रामादेरेकप्रबन्धोपात्तावस्थातो. ऽवस्थान्तरोपादानमन्याय्यम् । यथोदात्ताभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया स्वावस्थापरित्याग इति । वक्ष्यमाणानां च दक्षिणाद्यवस्थानां 'पूर्वी प्रत्यन्यया हृतः' इति नित्यसापेक्षत्वेनाविर्भावादुपासावस्थातोऽवस्थान्तराभि. २५ । धानमङ्गाङ्गिनोरप्यविरुद्धमिति ।
+This whole passage is taken with a few variations from the Avaloka of Dhanika on the Dasarūpaka of Dhananjaya. See p. 58-59. द. रू. Guj. Press-Edition.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org