________________
४१०
१०
१५
२०
२५
काव्यानुशासनम् [ १५३-५८) अ. ७. सू. १०-१५
१५३) पराधिक्षेपाद्य सहनं तेजः ||१०|| पराच्छत्रोर्न तु गुरोर्मित्रादेर्वाधिक्षेपापमानादेरसहनं तेजः । यथाव्रत नूतन कुष्माण्डफलानां के भवन्त्यमी । अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥ ६८७ ॥ [ नायकभेदानाह—
]
१५४) धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा ॥ ११ ॥ स इति नायकः । धीरशब्दः प्रत्येकमभिसंबध्यते । तेन धीरोदात्तो धीरललितो धीरशान्तो धीरोद्धत इति । दक्षिणधृष्टानुकूलशठभेदादेकैश्चतुर्धा । एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडशभेदा
नायकस्य ।
धीरोदात्तादी लक्षयति---
१५५) गूढगर्वः स्थिरो धीर: क्षमावानविकत्थनो महासवो दृढव्रतो धीरोदात्तः ||१२||
गूढगर्वो विनयच्छन्नावलेपो ऽविकत्थनोऽनात्मश्लाघापरः । महासत्त्वः क्रोधाद्यनभिभूतान्तस्तत्त्वः दृढव्रतोऽङ्गीकृतनिर्वाहकः, यथा रामादिः ।
१५६) कलासक्तः सुखी शृङ्गारी मृदुर्निश्चिन्तो धीरकलितः ॥ १३ ॥
कलासु गीतायास्वासक्तः । सुखी भोगप्रवणः शृङ्गारप्रधानः सुकुमाराकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः, यथा वत्सराजः ।
१५७) विनयोपशमवान् धीरशान्तः || १४ ||
1
यथा मालतीमाधवमृच्छकटिकादौ माधवचारुदत्तादिः । १५८) शूरो मत्सरी मायी विकत्थनश्छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः ॥ १५॥
1. I. न्तः सत्त्वः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org