________________
.
१४६) अ. ७ स. ३] काव्यानुशासनम्
यतः शरीरविकारादाक्ष्यादि गम्यते सा शोभेत्यर्थः । दाभ्यं यथास्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिदं धनुः । शुण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डकस्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥६७४॥ ५
[म. च. अं. १. श्लो. ५३.] शौर्य यथाखरेण खण्डिताशेषगात्रेण रणमूर्धनि रामव्याजेन लोकेषु शौर्यमुत्सारितं नृणाम् ॥६७५॥ [ ] उत्साहो यथा-- मूर्धा जाम्बवतोऽभिवाय चरणानापृच्छय सेनापतीनाश्चास्याश्रुमुखान्मुहुः प्रियसखान् प्रेष्यान् समादिश्य च । आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥६७६॥ .
[
] १५ नीचजुगुप्सा यथा
उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः । प्रयुक्तस्तत् प्रमाथाय स्त्रैणेन विचिकित्सति ॥६७७॥
[म. च. अं. १. श्लो. ३७] उत्तमस्पर्धा यथा
२. एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनिषावद्रौ सुभद्रापते. मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् ॥६७८॥
.]
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org