SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ॥ सप्तमोऽध्यायः ॥ इह च काव्यं नायकादिप्रतिबद्धं भवतीति नायकादिलक्षणमुच्यते । तत्र तावदुत्तममध्यमाधमभेदेन पुंसां स्त्रीणां च तिनः प्रकृतयो भवन्ति । तत्र केवलगुणमय्युत्तमा । स्वल्पदोषा बहुगुणा मध्यमा । दोपवत्यधमा । तत्राधमप्रकृतयो नायकयोरनुचरा विटचेटीविदूषकादयो भवन्ति । उत्तममध्यमप्रकृतियुक्तस्तु-- १४४) समग्रगुणः कथाव्यापी नायकः ॥१॥ समग्रगुणो नेतृत्वादिगुणयोगी वक्ष्यमाणशोभादिगुणान्वितश्च । तत्र नेतृत्वादिगुणबाहुल्यान्मध्यमप्रकृतावपि समग्रगुणता । नेतृ १० गुणाश्चेमे १५ (17) नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी व्यूढवंशः स्थिरो युवा ।। बुद्धयुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ [द. रू. प्र. २. का. १-२] कथा प्रबन्धस्तद्यापी। नयति व्यानोति-इतिवृत्तं फलं चेति नायकः । तस्य सात्त्विकान् गुणानाह १४५) शोभाविलासललितमाधुर्यस्थैर्यगाम्भीर्यौदार्यतेजां२० स्यष्टौ सत्त्वजास्तद्गुणाः ॥२॥ इह सत्त्वं देहविकारस्तस्माजाताः । क्रमेण लक्षयति - १४६) दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिकाशोभा ॥३॥ ___ 1. P. प्राप्नोति 2. I. adds मपुर 3. I. drops इह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy