________________
१४३) अ. ६ स. ३१ ] काव्यानुशासनम्
४०५ प्रत्यनीकं च प्रतीयमानोत्प्रेक्षाप्रकार एवेति नालङ्कारान्तरतया वाच्यम् । इति । आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञ
काव्यानुशासनवृत्तौ अर्थालङ्कारवर्णन: षष्ठोऽध्यायः समाप्तः ॥
१०
अत्र शत्रुनगरीविनाशोपनिबद्धद्वारेणानर्थोपरमस्य दर्शितत्वादाशास्यमानार्थोंपनिबन्ध एव । न त्विदं भूयादित्येवमाल्मिकायाः प्रयोक्तृधर्मत्वेनावस्थिताया आशिषोऽत्रोपदर्शनम् । तथा विविधाः शत्रुनगरी राजलोको दृश्यादिति नायमत्रार्थः संपन्नत्वादेतस्यार्थस्य, किन्तु तथाविधानां शत्रुनगरीणां दर्शनमत्र प्राप्तकालतयाभ्यनुज्ञायते । अत्रापि शत्रुविनाशलक्षणविभावद्वारेण हर्षात्मनो भावस्योपनिबन्धात्पूर्ववद्भावध्वनिरेवेति । तदाह-भावज्ञापनेनेति ।
प्रत्यनोकमिति । अनीकप्रतिनिधितुल्यत्वात्प्रत्यनीकम् । यथानीकेऽभियोज्ये तत्प्रतिनिधिभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयत इत्यर्थः । तथा चाह(174) प्रतिपक्षमशक्तेन प्रतिकर्तु तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥
[का. प्र. उ. १०. का. १२९१ १ यथाखं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । . पश्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादथ कामः ॥५८०॥ [ ]
तां त्वय्यनुरक्ता मनोभवः शरैस्ताडयतीति वास्तवोऽर्थः । तत्र च मनोभवस्य त्वद्रूपेण विनिर्जितत्वाद्योऽसावनुशयः स कारणत्वेनोत्प्रेक्षित इत्युत्प्रेक्षा । सा च प्रतीयमाना इवादिशब्दाप्रयोगात् । जातिगतिरीतिवृत्तिच्छायामुद्रोक्तियुक्तिभणितिगुम्फनाशय्यापठितिवाक्यवाक्याध्येयप्रेक्ष्यगेयाभिनेयानि शब्दालङ्काराः संभवप्रत्यक्षागमोपमानार्थापत्त्यभावलक्षणाश्चार्थालङ्कारा ये भोजराजेन प्रतिपादिताः [ स. कं. परि. २, ३. ] ते केचिदुक्तेष्वेवान्तर्भवन्ति, केचिच २५ कंचनापि चमत्कारं नावहन्ति, केचिच्च काव्यशरीरस्वभावा एवेति न सूत्रिताः ॥
॥ इति आचार्यश्रीहेमचन्द्रविरचिते विवेके षष्ठोऽध्यायः ॥
1. A B. शत्रुमारी.
+ वाकोवाक्य. सं. क.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org