________________
४०४
काम्यानुशासनम् [१४३) अ. ६. सू. ३१ अथ तथाविधवर्णनीयवस्तुपरं तदा गुणीभूतव्यङ्गयस्येति नालङ्कारः। रसव प्रेयसी ऊर्जस्विभावसमाहितानि गुणीभूतव्यङ्ग्यप्रकारा एव ।
आशीस्तु प्रियोक्तिमात्र, भावज्ञापनेन गुणीभूतव्यङ्ग्यस्य वा विषयः । ___रामो हि पितृवचनमनुतिष्ठन्नयपराक्रमादिधर्मयोगादुत्साहयोगाश्च वीररसपानेवेति रसध्वनिरेवायम् । ननु-उपलक्षणमङ्गभावोऽर्थादुपलक्षणीयेऽर्थे, ततश्चोपलक्षणीभूतस्य रामचरितस्य वाक्यार्थीभावाभावादकत्वमेव । दण्डकारण्योत्कर्षप्रतिपतिहिं वाक्यार्थः सैव प्रधानं ततः कथं ध्वनिविषयतेत्याशयाह-अथेति ।
गुणीभूतव्यङ्गयप्रकारा पवेति । मध्यमकाव्यप्रभेदविषयत्वेन ये प्रतिपादिताः ।
माशीस्त्विति । आशासनमप्राप्तप्राप्तीच्छारूपमाशीः प्रयोक्तृधर्मः । अथवा आशास्यमानो योऽसावोंऽर्थप्राप्त्यनर्थोपरमात्मकः स एव प्राप्तकालतयाभ्यनुज्ञात आशीविषयत्वादाशीरिति । तत्र पक्षद्वयेऽपि स्नेहाभावे लोकव्यवहारमात्रानुसरणार्थत्वेनाशीयेदि प्रयुज्यते तदा 'गतोऽस्तमर्कः' इत्यादिवद्वार्तावर्णनमात्रत्वाद्दरापेतैवालङ्कारतेत्याह
प्रियोक्तिमात्रमिति । सहृदयानां किमप्येतदिति चमत्काराभावादित्यर्थः । अथ स्नेहातिशयेनोच्यते, तदा ध्वनेविषयः । तथा हि-कश्चित्कस्मैचित्स्नेहनिर्भरहृदयतया आशिषं प्रयुङ्क्ते तत्र च तस्य चेतोवृत्तिविशेषः स्नेहात्मा रतिभावविशेषरूप आशीरेण प्रतीयत इति भावध्वनिरेवायम् । यथा
अस्मिजहीहि सुहृदि प्रणयाभ्यसूयामाश्लिष्य गाढममुमानतमादरेण । विन्ध्य महानिव धनः समयेऽभिवर्षनानन्दजैनयनवारिभिरुक्षतु त्वाम् ॥५७८॥
[भामहालंकार. परि. ३. श्लो. ५६ ] कयोश्चिन्मैत्रीसंबन्धे पिशुनजनानुप्रवेशेन विच्छायीकृते सति कस्यचित्रायकस्य तत्स्नेहदाढर्थसंपादनायेयमुक्तिः । अथ च सौहृदमप्यर्थप्राप्तिरूपं मैत्री
संबन्धस्य प्रवर्धमानतयोपनिबद्धम् । जहीहीति आश्लिष्येति च प्रार्थनापञ्चम्यन्तौ । २५ उक्षत्विति प्राप्तकालतायां पञ्चमी । तेनात्राशास्यमानस्य मैत्रीसम्बन्धस्योपनि
बन्धो न त्वप्राप्तप्राप्तीच्छात्मिकाया आशिषः । तथा
मदान्धमाताविभिन्नशाला हतप्रवीराद्भुतभीतपौराः । त्वत्तेजसा दग्धसमस्तलीला द्विषां पुरीः पश्यतु राजलोकः ॥५७९॥
[भा. लं. परि. ३. श्लो. ५७] 1 1 gives af but has maked it with the sign of dropping
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org