________________
१४३) अ. ६ सू. ३१] काव्यानुशासनम्
कारात्मकमभिनेयप्रबन्ध एव भवति । यद्यपि मुक्तकादावपि दृश्यते तथापि न तत्स्वदते । उदात्तं तु ऋद्धिमद्वस्तुलक्षणं अतिशयोक्तेर्जाते र्वा न भिद्यते । महापुरुषवर्णनारूपं च यदि रसपरं तदा ध्वनेर्विषयः । माना बध्यन्त इत्यर्थः । भूतभाविशब्दस्य परोक्षोपलक्षणपरत्वे परोक्षाणां पुरःस्फुरद्रूपत्व हेतुवर्णनमिति तु व्याख्याने स्वभावोक्तेर्न भिद्यते ।
1.
अभिनेयप्रबन्ध एवेति । प्रवेशकविष्कम्भकादिभिस्तथैव तंत्र वर्ण्यमानत्वादिति भावः ।
ननु—
आसीदजनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ||५७५ ॥ [
1
अत्राद्येऽर्धे भूतस्य, द्वितीये भाविनो दर्शनमिति मुक्तकविषयमपि भाविकं दृश्यते, ततः कुतो न लक्ष्यत इत्याशङ्कयाह - यद्यपीति ।
४०३
इति । यथा
ऋद्धिमद्वस्तुलक्षणमिति । यदाह (171) उदात्तं वस्तुनः सम्पत् [ का. प्र. उ. १० का ११५ ] मुक्ताः केलिविसूत्रहारगलिताः संमार्जनी मिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाङ्घ्रिलाक्षारुणाः ।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुकाः यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥५७६ ॥
न ह्यतिशयैश्वर्येऽपि मुक्तारत्नानामवकर प्रायत्वेन पुञ्जीकरणं संभवति । उक्तं च- (172) असम्बन्धे सम्बन्धात्मिकामतिशयोक्तिमवगमयति । तदाहअतिशयोक्तेरिति । अतिशयोक्तेरलङ्कारान्न भियत इत्यर्थः ।
अथ यत्र ऋद्धिमद्वस्तु संभवदेव वर्णयिष्यते तत्रोदात्तं भविष्यतीत्याशङ्कयाह स्वभावोक्ते [जाते] वैति । किं च । यदि ऋद्धिमद्वस्तुवर्णनमलङ्कारस्तदा ऋद्धिरहितच स्तुवर्णनमप्यलङ्कारः कञ्चित्प्रसजतीति ।
Jain Education International
For Private & Personal Use Only
१०
..१५
2
इति । यथा---
महापुरुषवर्णनारूपमिति । यदाह - (173) महतां चोपलक्षणम् २५ [ का. प्र. उ. १०. का. ११५ ] तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी । निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः ॥ ५७७॥
1. A. B. नामिद्येत
2. A drops मह
२०
www.jainelibrary.org