________________
1
काव्यानुशासनम् [१४३) म. ६ स. ३१ भग्नप्रक्रमतादोषाभावमात्रं यथासंख्यं दोषाभिधानेनैव गतार्थम् । विनोक्तिस्तु तथाविधहृद्यत्वविरहात् । भाविकं तु भूतभाविपदार्थप्रत्यक्षी
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्र - क्यास्ते दुयोधनोऽसौ कथयत पुरुषा द्रष्टुमभ्यागतो स्वः ॥५१॥
वे. सं. अ. ५. श्लो. २६ ] इति । अत्र हि द्यूतच्छलकर्तृत्वादीनां विशेषणानां क्रोधोद्दीपनविभावतया सामिप्रायत्वमित्यपुष्टार्थत्वदोषाभाव एवायम् ।
यथासंख्यमिति । तथा चाह-(168) यथासंख्ये क्रमेणैव ऋमिकाणां समन्वयः [ का. प्र. उ. १०. का. १९८ ] इति । यथा
एकत्रिधा वचसि चेतसि चित्रमेतद्देव द्विषां च विदुषां च मृगीशां च । तापं च संमदरसं च रतिं व पुष्णन् शौयोंष्मणा च विनयेन च लीलया च ॥५२॥ इति । [ ]
अत्र न यथासंख्यकृतं किमपि वैचित्र्य किन्तु एकत्रिधा वससीति-आमुखे १५ विरोधप्रतीतिकृतमेवेति ।
विनोक्तिस्त्विति । तथा बाह--(163) विनोक्तिः सा विनान्येन यत्रायः सन् तपेतरः [का. प्र. उ. १०. का. ११३] इति । सन् शोमनः, इतरोऽशोभनः । यथा
मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतयुतिसुन्दराशयोऽयं सुहृदा तेन विमा नरेन्द्रसूनुः ॥५७३॥ [ ] अरुचिनिशया विना शशी शशिना सापि विना महत्तमः ।। उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥५७४॥
इति-उदाहरणद्वयेऽपि वदन्तु सहृदयाः-यदि किमपि विनोक्तिकृत वैचि२५ त्र्यमवभासते, सहोक्तौ तु सहार्थबलात्साम्यसमन्वयप्रतीतेयुक्तमेव वैचित्र्यमिति ।
किं च-शब्दमात्रयोगेनालारत्वकल्पने हा धिगायुक्तावप्यलङ्कारत्वप्रसङ्गः प्राप्नोतीति ।
भाषिकमिति। (170) 'भावः कवेरभित्रायः' [ का. द. परि. २. श्लो. ३६४] स यत्रास्ति तद्भाविकम् । ३० भूतभाषिपदार्थप्रत्यक्षीकासात्मकमिति । प्रचंसाभावप्रागभावा. , क्रान्ता अपि भावाः स्वमहिना वचःप्रसादवशाच यत्पुरः स्फुरन्त इव दृश्य
1. N. न रुषा 2. N सन्न नेतरः 3. A. B. किश्चित् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org