SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ १४१) अ. ६ सू. ३१ ] काव्यानुशासनम् स्मरन्ति ज्योत्स्नायाः शशिमुखि चकोरास्तव दृशि । ६७१ । इत्यादौ तत्त्वारोपे स्मरणानुपपत्ते रूपकस्य । राजनारायण लक्ष्मीस्त्वामालिङ्गति निर्भरम् ॥ १७२ ॥ इत्यादौ सदृशं प्रति प्रेयसी प्रयुक्त स्यालिङ्गनस्यासंभवादुपमायाश्च बाधकं प्रमाणमस्ति न तत्र संशयः । ऐकपदेन सङ्करो यथा - मेरूरुकेसरमुदारदिगन्तपत्र मामूललम्बिचलशेषशरीरनालम् । 1 येनोद्धतं कुवलयं लसता सलील ४०१ मुत्तकार्थमिव पातु सवो वराहः ||६७३ ॥ 1 अपदानुप्रविष्टौ रूपकानुप्रासौ । यद्यप्यनेकविषयमिदं रूपकमखिलवाक्यव्यापि तथापि प्रतिपदं रूपकसद्भावादेकपदानुप्रवेशो न विरुध्यते । इत्युक्ताः शब्दार्थालङ्काराः || कः पुनरङ्गाश्रितत्वाविशेषेऽप्ययं शब्दस्यालङ्कारोऽयमर्थस्येति विशेषः । उच्यते - दोषगुणालङ्काराणां शब्दार्थोभयगतत्वव्यवस्थायामन्वयव्यतिरेकावेव निमित्तम् । निमित्तान्तरस्याभावात् । ततश्च योsaङ्कारो यदीयौ भावाभावावनुविधत्ते स तदलङ्कारो व्यवस्थाप्यत इति । यद्यपि पुनरुक्तवदाभासार्थान्तरन्यासादयः केचिदुभयान्वयव्यतिरेकानुविधायिनोऽपि दृश्यन्ते तत्रापि शब्दस्यार्थस्य वा वैचित्र्यमुत्कटमित्युभयालङ्कारत्वमनपेक्ष्यैव शब्दालङ्कारत्वेनार्थालङ्कारत्वेन चोक्ताः । इह चापुष्टार्थत्वलक्षणदोषाभावमात्रं साभिप्रायविशेषणोक्तिरूपः परिकरो साभिप्राय विशेषणोक्तिरूप इति । तथा च (167) विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः [ का. प्र. उ. १०. का. ११८ ] इति । यथा -- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णा केशोतरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । I. I. कलता ५१ Jain Education International For Private & Personal Use Only १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy