________________
४००
काव्यानुशासनम् [१४३) अ. ६ सू. ३१ संशयेन संकरो यथानिग्गंडदुरारोहं मा पुत्तय पाडलं समारुहसु । आरूढनिवडिया के इमीए न कया इह ग्गामे ॥६६६॥
अत्र शठतरपोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति संशयः । तथा
नयनानन्ददायीन्दोबिम्बमेतत्प्रसीदति । अधुना विनिरुद्धाशमपि शीर्णमिदं तमः ॥६६७॥ [ ]
अत्र मुखेन सहाभेदारोपाकिमतिशयोक्तिः, किमेतदिति मुखं १० निर्दिश्येन्दुसमारोपणाद्रूपकम् , किं मुखनैर्मल्यप्रस्तावेऽन्योक्तिः, अथै
तयोः समुच्चयविवक्षायां दीपकम् , किं प्रदोषवर्णने विशेषणसाम्यात् समासोक्तिः, किं मदनोद्दीपकः कालो वर्तत इति तात्पर्यात्पर्यायोक्त. मित्येनकालङ्कारसंशयः । तथा--
शशिवदना सितसरसिजनयना सितकुन्ददशनपङ्क्तिरियम् । गगनजलस्थलसंभवहृयाकारा कृता विधिना ॥६६८॥ [ ] अत्र रूपकमुपमा वेति संशयः । यत्र तु
मोहमहाचलदलने साशनिशितकोटिरेकापि ॥ ६६९ ॥ इत्यादावारोपितकुलिशकोटिरूपाया भक्तेर्मोहस्य महाचलेनोपमितमात्रस्य दलने कतत्वं न हृदयावर्जकं स्यादिति रूपकस्य ।
'ज्योत्स्नेव हास्यद्युतिराननेन्दोः' । ६७० ।
इत्यादौ मुख्यतयावगम्यमाना हसितद्युतिर्वक्त्र एवानुकूल्यं भजत इत्युप्रमायाः साधकं प्रमाणमस्ति ।
निर्गण्डे ति [ निग्गण्डेति ] । कठिनदुरारोहाम् । 1. P. समारोपणारूपक 2. I. सासुनिशितवनको 3. N °दुरारोहम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org