________________
१४३) अ. ६ स. ३१ ] काव्यानुशासनम्
कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकासया क्रद्धोलककदम्बकस्य पुरतः काकोऽपि हंसायते । कोा ते धवलीकृते त्रिभुवने क्षमापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोयमित्युपहितवीडं शनैर्जल्पति ॥६६२॥
अत्रातिशयोक्तिमपेक्ष्य भ्रान्तिरुद्भूता । तदाश्रयेण चातिशयोक्तिश्चमत्कारहेतुरित्येतयोरङ्गाङ्गिभावः ।।
त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ । इयता युवयोर्भेदः स जडात्मा पटुर्भवान् ॥६६३॥ [ ] अत्र श्लेषो व्यतिरेकस्याङ्गम् । कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणी ॥६६॥
[का. द. परि. २. श्लो. ३३९ ] अत्र श्लेषो विरोधस्याङ्गम् ।
आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥६६५॥
[का. द. परि. २. श्लो. ३६१. ] अत्र श्लेषोऽर्थान्तरन्यासस्याङ्गम् । दराविति । दुर्वारोऽव्याहतप्रसरः, दुष्टं क्षारं वार्जलं च यस्य स दुर्वाः । सत्त्वं धैर्यम्, सत्त्वाश्च प्राणिनः। तेजः प्रभावः, वडवानलश्च । जडा- २० त्मेति, उदकस्वभावोऽपि ।
कृष्णार्जुनेति । कृष्णा असिताः । अर्जुनाः शुक्लाः । अनुरक्ता लोहिताः । कर्णावलम्बिनी विपुलतया श्रोत्रसमीपसंश्रिता । विरोधे तु कृष्णो हरिः, अर्जुनः पार्थः, तत्र सानुरागा सा कर्ण राधेयं कथमालम्बत इति । अनयैव च विरोधमाया ऽविश्वास्यत्वं निबद्धम् । __ कोशदण्डसमप्राणामिति । कोशो भाण्डागारोऽपि । दण्डश्चतुर्थों. पायोऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org