SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३९८ १० १५ २० २५ काव्यानुशासनम् [ १४३) अ. १ सू ३१ १४३) स्वातन्त्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकरः ॥३१॥ परस्परं निरपेक्षत्वं स्वातन्त्र्यम् । उपकारकत्वमङ्गत्वम् । एकस्य ग्रहेऽन्यस्य त्यागे साधकबाधकप्रमाणाभावादनिर्णयः संशयः । एकस्मिन् पदेऽर्थाच्छब्दालङ्कारयोः समावेश एकपद्यम् । एभिरेषां पूर्वोक्तानामलङ्काराणामेकत्र वाक्ये वाक्यार्थे वाडवस्थानं संकीर्यमाणस्वरूपत्वात्संकरः । स्वातन्त्र्येण शब्दालङ्कारयोः संकरो यथा कुसुमसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखला कलकलोऽलकलोलदृशान्यया ।। ६५९ ।। [ शि. व. स. ६. लो. १४ ] अत्र यमकानुप्रासयोः । अर्थालङ्कारयोर्यथालिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता || ६६०|| 1 अत्रोत्प्रेक्षोपमयोः । शब्दार्थालङ्कारयोर्यथा- सोनत्थि एत्थ गामे जो एयं महमहन्तलायण्णम् । तरुणाण हिअलडिं परिसक्कन्ति निवारेइ ॥ ६६१॥ अत्रानुप्रासरूपकयोः । अङ्गत्वेन संकरो यथा [ मृ. क. अं. १. श्लो. ३४ ] Jain Education International इत्यत्र तु कालरूपतां कोमलानुप्रासमहिम्नैव समानासिषुः न तु हेत्वलङ्कारकल्पनयेति । यद्यप्यव्यभिचारितयैव विकासादीनां नैरन्तर्येण जननमिहो - पचारप्रयोजनं व्यङ्ग्यम्, तदसुन्दरमपि काव्यस्य मध्यमत्वनिबन्धनं भवति । तथाप्यलङ्कारचिन्तायाः प्रक्रान्तत्वात्तदपह्नुत्यैव हेतोरलङ्कारत्वं निराक्रियत इति । 1. I. drops लोभ शि. व. ( N. S. ) वदनसौरभ For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy