________________
१४२) अ. ६. सू. ३०] काव्यानुशासनम्
निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविवशो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् || ६५८ ॥ [ मृ. क. अं. १. श्लो. १४ ]
कारणमात्रं तु न वैचित्र्यपात्रमिति न हेतुरलङ्कारान्तरम् । कारणमात्रं त्विति । अमेधूम इत्येवंरूपमित्यर्थः । नन्वीदृशस्य हेतोर्हृद्यत्वाभावादलंकारत्वं मा भवतु । यत्र तुवपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यतनुरहमग्रेऽपि भविता
महेश क्षन्तव्यं तदिदमपराद्धद्वयमपि ॥ ५६७॥ [ भस्मोद्धलन भद्रमस्तु भवते रुद्राक्षमाले शुभम्
हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम् । अद्याराधनरोषितेन विभुना युष्मत्सपर्या सुखा
लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥५६८ ॥ [
इत्यादौ चापराधद्वये पूर्वापरजन्मनोरनुमानलक्षणो हेतुर्वाक्यार्थी भूतो महामोहे सुखालोकोच्छेदित्वलक्षणश्च पदार्थीभूतो हृद्यतयावसीयते तत्र कथं नालङ्कारत्वमिति । सत्यम् अस्ति हृद्यता, परं न हेतोः, किं तर्हि, अलङ्कारान्तरस्य । तथा हि प्रथम उदाहरणेऽनुमानस्य रामणीयकम् द्वितीये तु मोक्षस्य महामोहतया रूपणमिति रूपकस्येति हेतुर्नालङ्कारः । तन्निराकरणेन तद्रूपं काव्यलिङ्गमपि निराकृतमेवेति । एवं च (166) हेतुमता सह हेतोरभिधानमभेदतो हेतु:' । [ भट्टोद्भट ] इत्येवंरूपोऽपि हेतुर्न वाच्यः ।
,
आयुर्वृतं नदी पुण्यं भयं चौरः सुखं प्रिया ।
वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणभोजनम् ॥५६९ ॥ [
]
इत्येवंरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् । गौणे छुपचारे सादृश्यसंप्रत्ययाद्वैचित्र्यम् । यत्र तु न सादृश्यसंप्रत्ययस्तत्र नेति ।
अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाभरः कालः ॥ ५७० || [
Jain Education International
9
For Private & Personal Use Only
३९७
]
J
१०
१५
२०
२५
www.jainelibrary.org