________________
३९५
१४१) अ. ६. सू. २९] काव्यानुशासनम्
१४१) पृष्टेऽपृष्टे वा अन्यापोहपरोक्तिः परिसंख्या ॥२९॥
पृष्टेऽपृष्टे वा सत्यन्यव्यवच्छेदपरा योक्तिः सा परिसंख्यानात्परिसंख्या । उभयत्रोपमानस्य वाच्यत्वं प्रतीयमानता चेति चत्वारोऽस्या भेदाः।
पृष्टे यथा-- कोऽलङ्कारः सतां शोलं न तु काञ्चननिर्मितम् । किमादेयं प्रयत्नेन धर्मो न तु धनादिकम् ॥६४९॥ [ ] का विसमा दिव्वगई किं लटुं जं जणो गुणग्गाही । किं सुक्खं सुकलत्तं किं दुग्गेज्झं खलो लोओ॥६५०॥[ ] अत्र 'दैवमतिरेव विषमा' इत्यादिरन्यापोहः प्रतीयते । अपृष्टे यथाधेहि धर्मे धनधियं मा धनेषु कदाचन । सेवस्व सद्गुरूपज्ञां शिक्षा मा तु नितम्बिनीम् ॥६५१॥
कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥६५२॥
[ रुद्रट. का. लं. अ. ७ श्लो. ८१ ] यथा वाराज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥६५३॥
[ रुद्रट. का. लं. अ. ७ श्लो. ९७] दानं वित्तादृतं वाचः कीर्तिधौ तथायुषः ।। परोपकरणं कायादसारात्सारमुद्धरेत् ॥६५४॥ [ ] पोढमहिलाण जं सुटु सिक्खिरं तं रए सुहावेइ ।
राज्ये सारमिति । अत्र सारालङ्कारः कैश्चिदुक्तः, स चान्यापोहमन्त- २५ रेण न चमत्कारकारीति परिसंख्यैव युक्तोऽलङ्कारः ।
दान वित्तादिति, पोढमहिलाणेत्यत्रापि केनचित्सारालङ्कार उक्तस्तत्रापि अन्यापोहकृतं चारुत्वमितीयमपि परिसंख्यैव युक्तेति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org