SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ १४०) अ. ६ सू. २८ ] काव्यानुशासनम् दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मया ॥६४३॥ [सुभा. ११५६. भट्टशङ्कुकस्य ] ५ योगतः' इत्येवं लक्षणलक्षितः समाधिरपि समुच्चय एवान्तर्भवति । अन्यथा 'मानमस्या निराकर्तुम्' इत्युदाहरिष्यमाणे तुल्यकक्षत्वाभावान्न समुच्चयः स्यादिति । एष एव च समुपयः सद्योगेऽसद्योगे च पर्यवस्यतीति न पृथग्लक्ष्यते । तथा हि कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा लेते भावा अमीमिरयं जनो व्रजति सुतरां दर्प राजस्त एव तवाडशाः ॥५६३॥ [ अत्र सतां योगः। 'दुर्वाराः' इत्यादौ त्वसतां योगः । नववयप्रभृतेहि सत्यपि शोभनत्वे सर्वेषामप्यशोभनत्वकथनम् , अशोभनत्वेनैव विरहिण्या भावितत्वात् । १५ शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः। प्रभुर्धनपरायणः सततर्गतः सज्जनो नृपाङ्गणगतःखलो मनसि सप्त शल्यानि मे।५६४। [भ. नी श. श्लो. ४५. ] ___ अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः । तथा हिशशिनः शोभनत्वं प्रकृतिसौन्दर्यात् , अशोभनत्वं च धूसरत्वोत्पादात् । एवं २० चास्य सदसद्रूपस्य तादृशेनैवापरेण योगादिह सदसद्योगः । गुणक्रियाश्चेत्यत्र च यथा रुद्रटेन (164) 'व्यधिकरणे वा यस्मिन्' [ रु. का. लं. अ. ७ सू. २२-२५. ] इत्यादिना व्यधिकरणे इत्येकस्मिन् देश इति च प्रतिपादितम् , न तथा प्रतिपादनीयम् । 'धुनोति चासिं तनुते च कीर्तिम् ' ॥५६५॥ इत्यादेः कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्च सुराः सुरालये ॥५६६॥ इत्यादेवान्यथापि दर्शनादिति । 1. A. has च between ta and नैव ३. रणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy