________________
३९२ काव्यानुशासनम् [१३९-४०) अ. ६ सू. २७-२८
न केवलं क्रियाफलाभावेऽर्थात्कर्तुर्यावदनर्थश्च भवति यत्र तिद्वषमम् । यथा
उत्कण्ठा परितापो रणरणको जागरस्तनोस्तनुता । फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्टा ॥६४०॥
[रुद्रट. का. लं. अ. ७. श्लो. ५५ ] अत्र मृगलोचनादर्शनेन केवलं सुखं न प्राप्तम् , यावत्तद्विच्छेदे उत्कण्ठादिरनर्थः प्राप्तः ।
१३९) योग्यतया योगः समम् ।।२७॥
उत्कृष्टं उत्कृष्टस्य निकृष्टं निकृष्टस्य योग्यमिति योग्यतया योगः १० समम् । यथा
धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी देवो रूपेऽप्ययमनुपमे दत्तपत्रः स्मरस्य । जातं दैवादुचितमनयोः संगतं यत्तदस्मिन्
शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥६४१॥ [ ] यथा वा
चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता । यन्निम्बानां परिणतफलस्फातिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥६४२॥
१४०) हेतौ कार्ये चैकत्र हेतुकार्यान्तरोक्तियुगपद्गुणक्रियाश्च समुच्चयः ॥२८॥
कस्यचित्कार्यस्य एकस्मिन् हेतौ साधके सति हेत्वन्तराभिधानं कार्ये चैकस्मिन् प्रस्तुते कुतश्चिन्निमित्तात् कार्यान्तराभिधानं च समुच्चयः। युगपद्गुणौ च क्रिये च गुणक्रियाश्च समुच्चयः । बहुवचनं व्याप्त्यर्थम् । हेतौ हेत्वन्तरम् , यथा- समुचय इति । अत्र तुल्यकक्षतामनपेक्ष्यैव समुच्चयन समुच्चय इति सामान्येन व्युत्पत्तिः करणीया । एवं हि 'समाधिः सुकर कार्य कारणान्तर
-
1 गुणकिये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org