________________
१३६-३८)अ. ६. सू. २६-२८] काव्यानुशासनम्
३९१ यथा वा---
सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकृतं लीलापमं निमीलितम् ॥६३७।। [ ] अत्र कमलनिमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम् । १३६) सहशदर्शनात्स्मरणं स्मृतिः ॥२४॥
पूर्वोपलब्धस्यार्थस्य तादृशदर्शनासंस्कारोबोधे सति यत्स्मरणं सा स्मृतिः । यथा
अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तय । अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः ॥६३८॥ [ ] १३७) विपर्ययो भ्रान्तिः ॥३५॥ सदृशदर्शनाद् विपर्ययज्ञानं भ्रान्तिः । यथानीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्धयाधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ॥६३९॥ १५
न चैतद्र्पकं प्रथमा वातिशयोक्तिः। तत्र वस्तुतो भ्रमस्याभावात्। १३८) क्रियाफलाभावोऽनर्थश्च विषमम् ॥२६॥ निर्णतुं शक्यमस्तीति । अत्र स्तनभरनितम्बयोर्मध्ये मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्र येयं पयोधरभरस्थितिः सान्यथा- २० नुपपद्यमानाधारकं मध्यमनुपलभ्यमानं बोधयति । उदाहरणान्तरस्य चास्यायमभिप्रायः । यथा केनचिदर्थापत्तिलक्षणोऽलङ्कारः पृथग्लक्षितस्तथा न लक्षणीयोऽर्थापत्तिलक्षणत्वादनुमानस्येति । ___ अनुमानमेवेदमिति । न तु सूक्ष्मम्, अनुमानान्तर्भूतत्वात्सूक्ष्मस्येति भावः ।
1. I कूलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org