________________
३८८
काव्यानुशासनम् [१३३) अ. ६. सू. २१ प्रकृतेन प्रकृतस्यापलाप एका अपह्नतिः । अप्रकृतेन प्रकृतस्यापलापोऽन्या । तत्राद्या यथा
शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस___ द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
शैलान्तःपुरमातृमण्डलगणैदृष्टोऽवताद्वः शिवः ॥६२८॥
अत्र गिरिजाकरस्पर्शकारणौ पुलकवेपथू सात्त्विकरूपौ प्रकृतो प्रकृतेनैव तुहिनाचलशैत्येनापहृतौ । १० द्वितीया यथा
नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥६२९॥
.. [ भामहालकार परि. ३. श्लो. १२ ] अप्रकृतेन प्रकृतस्यापलापोऽन्येति । अत्र पारमार्थिकस्यासत्य१५ करणमपारमार्थिकस्य सत्यतया स्थापनं स्थूलदृष्ट्या बोद्धव्यम् । तात्पर्य तु
वाक्यस्य सादृश्ये एव । तथा यत्र पदार्थस्वरूपविपर्यासोऽभिधीयते । न च तत्र स्वेच्छया पुरुषाणां सामर्थ्यमस्ति तेनोन्मत्तवाक्यता, दशदाडिमादिश्लोकवदेव प्राप्नोति । यदा त्वनेन वाक्येनाभिधेययोरर्थयोरसत्यसत्यत्वयोरविवक्षया सादृश्य लक्षणात्मना व्यापारेण प्रतिपाद्यते तदास्य नोन्मत्तवाक्यता, प्रत्युत सौन्दर्यशालितया सहृदयहृदयचमत्कारिता भवति । सोऽयं वाच्यार्थापेक्षयापलुत्यलङ्कारो लाक्षणिकार्यपरिग्रहः । उपमेयस्यापह्नु तत्वान्न स्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीति रूपकाशङ्का न कार्या ।
व्यासङ्गो निरोधस्तस्माद्भङ्गो भयम् ।
नेय विरौतीति । अत्र मदमुखरमधुकरावलीविरुतं विरहिणां हृदय२५ भेदित्वाविशेषेण कामकार्मुकद्धृतेन समानमध्यवसाय तदैक्याध्यारोपेण तेनैवापढ़यत इति ।
1. A. B. सादृश्या 2. B. drops from धस्त to तीति 3 A. drops. नेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org