________________
१३३) अ. ६. सू. २१ ] काव्यानुशासनम्
अत्र रूपकगर्भीकारेण निर्णयान्तः संशयः । यथा वाअथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः॥६२६॥ [ कि. स. ५, श्लो. १.] अत्रातिशयोक्ति गर्भीकारेणानिर्णयान्तः । यथा वाअयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं
समालोक्याज त्वां विदधति विकल्पान् प्रति भटाः ॥ ६२७॥ अत्र रूपकगर्भीकारेण भेदकस्योक्तौ संशयः । १३३) प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपहुतिः ॥ २१ ॥
૨૮૦
अथ जयायेति । प्रतिकोन्यायेन मेरुजयसंभावना | रभसयेति । त्वरितया । अन्यथा दिग्विजयेनोत्तरकालं सर्वदिगवलोकनमर्जुनस्य भविष्यत्येव | हिमाचलमिति | हिमाचलैकदेशमिन्द्रप्रस्थाख्यै तपोऽर्थमिति तात्पर्यम् । समुदितमिति । पिण्डीभूतम् । अथवा जयादिव्यापारकर्तृत्व हिमाचलस्य व्याख्येयम् ।
अतिशयोक्तिगर्भीकारेणेति । तथा हि योऽसौ पौरुषेयव्यापारतिरस्कारेण नुशब्दत्रितयावद्योत्यमानतया कोटित्रयोल्लेखेनावास्तवः संशयः प्रतिपादितः स स्वसिद्धिनिर्वाहाय तथाविधोत्कटोच्छ्रायशून्येऽपि पर्वते मेरुजयादिव्यापारत्रय संपादनक्षमतयोच्छ्रायातिशयमाक्षिपन्नसंबन्धेऽपि संबन्धात्मिकामतिशयोक्तिमवगमयति ।
अयं मार्तण्डः किमिति । अत्रोपमेयस्य तद्भावमुपमानेनोक्त्वा पश्चाद्भेदे उच्यमाने यद्यप्यामुखे रूपकावभासः पञ्चाद्यतिरेकाकारता, तथापि नास्मिन्नलङ्कारद्वये विश्रान्तिः । अपि तु किमित्यादिशन्दोपादानात्सन्देह एव वाक्यार्थतया पर्यवस्यति । तस्य परिकरबन्धार्थ रूपकव्यतिरेकावामुखे प्रतिभासेते इति तत्संकराशङ्का न कार्या ।
भेदकस्योक्ताविति । पूर्वोदाहरणद्वये तु भेदकस्यानुक्तिरित्यर्थः ।
1. I. वैष
2. I. भेदस्यो
Jain Education International
For Private & Personal Use Only
१०
१५
२०
२५
www.jainelibrary.org