________________
३८६
काव्यानुशासनम् [१३२) म. ६. सू. २० सरोजपत्रे परिलीनषट्पदे विशालदृष्टेः स्विदम् विलोचने । शिरोरुहाः स्युनतपक्षसंततेविरेफवृन्दं नु निशब्दनिश्चलम् ।।६२४॥ अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकचं नु पङ्कजम् । इति प्रलीनां नलिनीवने सखी विदांबभूवुः सुचिरेण योषितः॥६२१।
[कि. स. ८. श्लो. ३५-३६ ] मूढो यथास्पन्दते दक्षिणं चक्षुः फलकाका न मे क्वचित् ।। न च मिथ्या मुनिवचः कथयिष्यति किं त्विदम् ॥५५९॥
अत्र न सन्देहनिष्ठता नापि विद्यमानस्य वस्तुनोंऽशेन परामर्श इति मूढः सन्देहः । यथा यगृहीतसंकेतस्यापूर्वपदार्थदर्शने सति किमिदं स्यादिति पदार्थानध्यवसानमित्येवंरूप इत्यर्थः । तदेवं प्रतिपायः सन्देहो निदर्शितः ।
उत्पाद्यो यथाव्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः । विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥५६०॥ [
] व्यालाः सर्पाः दुर्जनाश्च । दुरारोहा दुःखोकलनीयाः चिरकालप्रत्यासत्तिलाभाश्च । रत्नान्युपलविशेषाः, गुणवन्तश्च । भूमृतः पर्वताः, राजानश्च । इत्येतस्माद्वचसः प्रतिपत्तुः पर्वतराजविषयः सन्देह उपजायते । अलङ्कारान्तरच्छायागी कारेण जन्यस्तु ' सरोजपत्रे' इत्यादिनोदाहृतः । एतेषु सन्देहवत्सु वचनेषु बहुधा प्रवृत्तेषु प्रथमस्य प्रतिपाद्यसन्देहपक्षस्य रसभावतदाभासालङ्कारेवन्तर्भावः । वितर्कस्य हि व्यभिचारिणः सद्भावादवश्य क्वचिद्रसेऽङ्गता भवत्यत एव रसादिसद्भावे नान्तरीयकत्वेन तदाभासतापि भवतीति । द्वितीयस्य तु जन्यसन्देहपक्षस्य प्रतिनियतप्रकरणाभावात्प्रकृतस्य कस्यचिदभावात्कस्य स्तुतिरुत्कर्षाभिधायिकेति सन्देहो दोष एवेति दोषरूपतेति । तृतीयस्तु जन्यसन्देहाभासलक्षणः पक्षोऽस्य ससन्देहालङ्कारस्य विषयोऽवगन्तव्यः ।
सरोजपत्रे इत्यादि । अत्र प्रकृतं विलोचनादि वक्त्रा निश्चितमेव, यदि परं रूपकालङ्कारापादनमाहात्म्यात्सन्देहस्येव शाब्देन रूपेणावगतिः । तात्पर्यपर्यालोचनावशेन तूपमादावेव विश्रान्तिः । सन्देहवर्णनभङ्ग था तु तस्यैवालङ्कारता । ___1. N. °पदार्थादर्शने 2. A. Very corrupt readings of some words after thisa
3. A. B. संदेहालकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org