SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ १३२) अ. ६ सू. २०] काव्यानुशासनम् ३८५ रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभिदध्यौ । वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः ॥ ६२२ ॥ [ ] वैधर्म्येण यथा अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ॥ ६२३॥ J १३२) स्तुत्यै संशयोक्तिः ससन्देहः ॥ २० ॥ स्तुत्या अलङ्कारान्तरगर्भीकारेण प्रस्तुतवस्तुवर्णनार्थ संशयस्योक्तिनिर्णयान्ताऽनिर्णयान्ता वा भेदकस्यानुक्तावुक्तौ वा ससन्देहः । यथा स्तुत्यै इति । स्तुतये यत्संशययद्वचः प्रयुज्यते तत्र ससन्देहालङ्कारसंज्ञा । सह सन्देहेन अनिश्चयेन वर्तत इति कृत्वा । त्रिधा खलु सन्देहवद्वचो भवति । सन्देहस्य प्रतिपादकत्वेन उत्पादकत्वेन अलङ्कारान्तरच्छायां गर्भीकृत्यासन्देहेऽपि सन्देहस्येव जननेन चेति । संशयश्च शुद्धसंकीर्णमूढभेदाश्रेधा । तत्र शुद्धः प्रतिपाद्यो यथा वामेक्षणे स्फुरति धीः पुरुषस्य कष्टं स्याद्वा न वेति विदधाति गतागतानि । नार्याः पुनः प्रमदनिर्भररूपमास्ते तन्नास्ति यद्विनिभयादशुभं शुभं वा ॥५५॥ [ अत्र सन्देहनिष्ठत्वमेवेति शुद्धः सन्देहः । संकीर्णो यथा गिरिरयममरेन्द्रेणाद्य निर्लनपक्षः क्षतगरुदसुरेशैः किं कृतो वैनतेयः । अपरमिह मनो मे यः पितुः प्राणभूतः किमुत बत स एष व्याततायुर्जटायुः ॥ ५५८ ॥ [ ] 1 अत्र स्थाणुर्वा पुरुषो वेतिवत्पश्चात्पारमार्थिकेऽपि वस्तुनि परामर्श उदेतीति संकीर्णः सन्देहः । यथा किमेष जटायुरिति । पूर्वत्र तु कष्टस्य भविष्यत्त्वेन भावाभावावुभावपि सन्दिग्धौ | कदाचन तृतीयस्याप्युपक्षेपणीयन्यायेन मध्यरूपस्य प्रादुर्भाव संभावनमित्यनयोर्विवेकः । 1. A. drops संदेहबद्वचो भवति ४९ Jain Education International For Private & Personal Use Only १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy