________________
३८४
१०
१५
२०
२५
काव्यानुशासनम् [ १३१) अ. ६ सू १९
अहो विडम्बयत्येषा वदनेन सरोरहम् । ६२१| अत्रोत्कर्षापकर्षहेत्वोरनुक्तिः । साम्यं त्वाक्षेपात्सर्वत्र प्रतीयते । श्लेषव्यतिरेकस्तु सङ्करालङ्कारविषय इति तत्रैवोदाहरिष्यते । १३१) विशेषस्य सामान्येन साधर्म्यवैधम्र्म्याभ्यां समर्थनमर्थान्तरन्यासः || १९ ॥
साधर्म्येण वैधर्म्येण वा विशेषो यत्र सामान्येन समर्थ्यते सोऽर्थान्तरस्येव न्यसनमर्थान्तरन्यासः । तत्र साधर्म्येण यथा
संकरालङ्कारविषय इति इति । केषव्यतिरेकयोरन्यत्रापि लब्धसताकत्वादिति भावः । ततश्च तद्भेदा अत्र न प्रदर्शयितुमुचिताः । यद्यप्यनुपमचरितस्तथापि तव माच्युतस्तुलां लभते ।
स हरिर्नाना देवः स इरिर्वरस्तुरगनिवहेन ॥५५६ ॥
इत्यादयस्तु श्लिष्टोक्तियोग्यस्य पदस्य पृथगुपादाने ये भेदाः संभवन्ति त उक्तलक्षणेनैव संगृतहीताः, तत्र ह्येकस्य पदस्य द्विरुपादानात्र श्लेषः । उपमानात्तूपमेयस्याधिक्यमस्तीति व्यतिरेको भक्त्येव ।
मर्थान्तरस्येवेति । यत्र हेतोर्हेतुमता सह व्याप्ति गूढत्वात्कथञ्चित्प्रतीयते, न तु स्पष्टमवभासते, तत्रार्थान्तरस्येवासमानजातीयस्येव वस्तुनो यक्रयसनमसावर्थान्तरन्यासः । तत्तु यद्यत्कृतकं तत्तदनित्यमित्येवं प्रायमित्यर्थः ।
नन्वन्योक्तिनिदर्शनाभ्यां नायं भिद्यते । तथा हि-' ऐरावणं स्पृशति '- इत्यादावन्योक्तौ विशेषेण महेन्द्रवृत्तान्तेन वाच्येन त्वप्युद्युक्ते न कचित्सुखं शेते इति सामान्यं गम्यमानं समर्थ्यते । तथा ' होइ न गुणाणुराओ' इत्यादौ निदर्शने दृष्टान्तेन हान्तिकं समर्थ्यते, तेनास्य लक्षणास्यातिव्याप्तिः । सत्यम् । उभयत्रापि तत्र समयैसमर्थक भावोऽवगम्ये किं तु यथार्थान्तरन्यासे न तथा तयोः । अर्थान्तरन्यासे हि समर्थ्यस्य स्वकण्ठेनोपात्तस्य समर्थनम् । अन्योक्तौ तु न तत्तथा । निदर्शने च यद्यपि स्वकण्ठेनोपादानं समर्थ्यस्य तथापि न तत्र विशेषं प्रति सामान्यस्य समर्थक भावः । अपि तु सामान्यविशेषौ प्रति विशेषस्य । यतो दृष्टान्तस्य विशेषरूपतयेव प्रतिबिम्बभावः संगच्छत इति पृथगवस्थित एवायम् ।
1. A. B. युक्तेन
2. A. B. सामर्थ्य समर्थक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org