SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ १३०) अ. ६. सू. १८] काव्यानुशासनम् ३८३ नुपादानेऽनुक्तौ चैकविधायां चतुर्विधः । पुनश्च साम्यवाचकस्योक्तावनुक्तौ वाष्टमेदः। यथा यस्यावर्जयतो नित्यं रिपूनप्युज्ज्वलैर्गुणैः । लक्ष्यते नेतरस्येव गाम्भीर्यकनिधेः स्मयः ॥६१६॥ अत्र गाम्भीर्यैकनिधित्वमुपमेयोत्कर्षहेतुरुक्तः । 'तुच्छस्यान्यजनस्येव न स्मयो हन्त लक्ष्यते। इत्यत्रैव एवं पाठे तुच्छत्वमुपमानापकर्षहेतुर्भवति । असिमात्रसहायोऽयं प्रभूतारिपराभवे । नैवान्यतुच्छजनवत्सगर्वोऽयं धृतेनिधिः ॥६१७॥ अत्रोपमानोपमेयगतौ युगपदुत्कर्षापकर्षहेतू उक्तौ । शीर्णपर्णाम्बुवाताशकष्टेऽपि तपसि स्थिताम् । समुद्वहन्ती नापूर्व गर्वमन्यतपस्विवत् ॥६१८॥ [उ. लं. व. र. पृ. ३७.] अत्रोत्कर्षापकर्षहेत्वोयोरप्यनुक्तिः । एवं साम्योक्तौ चत्वारो भेदाः। साम्यानुक्तौ यथानवीनविभ्रमोद्भेदतरङ्गितगतिः सदा। . मुखेन स्मितमुग्धेन जयत्येषा सरोरुहम् ॥६१९॥ [ ] अत्रोपमेयोत्कर्षः । इवादिपदविरहात्तु साम्यस्यानुक्तिः । अत्रैव ‘विडम्बयति वक्त्रेण निश्येव स्मितमम्बुजम् ' इति पाठपरिणामे उपमानापकर्षः। 'आननेनाकलङ्केन जयन्तीन्दुं कलङ्कितम् ' ६२०। अत्र युगपदुत्कर्षापकौं । 1. I. युगपदपादाने There are marks of dropping like this over पादाने. I. drops एवं २० - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy