SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८२ काव्यानुशासनम् [ १२९-३०) अ. ६सू.१७-१८ किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ स्तूष्णी स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठयामुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥६१४॥ [सुभा. २५४४ मातङ्गदिवाकरस्य ] १२९) वाक्यस्यानेकार्थता श्लेषः ॥१७॥ पदानामेकार्थत्वेऽपि यत्र वाक्यस्यानेकार्थता स श्लेषः । यथादिशः प्रसादयनेष तेजोभिः प्रसृतैः सदा । न कस्यानन्दमसमं विदधाति विभाकरः ॥६१५॥ [ ] १० . अत्राभिधाया अनियन्त्रणाद् द्वावप्यकभूपौ वाच्यौ । १३०) उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः ॥१८॥ उपमेयस्य प्राकरणिकस्य यदाधिक्यमर्थादुपमानात् स व्यतिरेकः । स चोत्कर्षापकर्षहेत्वोः क्रमेण युगपद्वोपादाने त्रिविधायामुक्तौ युगपद अनेकार्थतेति । विभां करोतीत्येकमेव हि यौगिकमर्थ प्रतिपादयन् विभाकरशब्दः साधारणार्कभूपलक्षणार्थद्वयप्रतिपादको भवतीति दिगादिशब्दा अप्येकार्थप्रतिपादका एव सन्तोऽनेकार्थाः । तथा हि-दिग्लक्षण एक एवार्थ एकत्र ककुभोऽन्यत्र तत्स्थाः प्रजाः । प्रसादनं प्रकाशनम् , हर्षाधानं च । तेजो ज्योतिः प्रतापश्च ।। __ अभिधाया अनियन्त्रणादिति । द्वयोरप्यर्थयोः प्राकरणिकतया विवक्षितत्वादिति भावः । उपमेयस्याधिक्य मिति । न तूपमानस्य । यत्तुक्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥५५५॥ [रु. का. अ. ७. श्लो. ९. ] इत्यादावुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तम् , तदयुक्तम् । यौवनगतास्थैर्यस्य हात्राधिक्यं विवक्षितमिति यथोक्तमेव श्रेयः । 1. A. C. drop one भूयो; Rudrata has विवर्धते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy