________________
१८९
५
१३४) अ. ६. सू. २२ ] काव्यानुशासनम् यथा वाविलसदमरनारीनेत्रलीलाब्जषण्डा
न्यधिवसति सदा यः संयमाधःकृतानि । न तु ललितकलापे वर्तते यो मयूरे ___ वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥६३०॥[ ] यथा वा-' इदं ते केन' इति । एवमियं भङ्गयन्तरैरप्यूह्या । , १३४) पर्यायविनिमयौ परिवृत्तिः ॥२२॥
एकस्यानेकत्रानेकस्य वैकत्र क्रमेण वृत्तिः पर्यायः । समेन समस्योत्कृष्टेन निकृष्टस्य निकृष्टेनोत्कृष्टस्य वा व्यतिहारो विनिमयः । तावेतौ परिवृत्तिः । यथा
जो तीऍ अहरराओ रति उव्वासिओ पिअयमेण । सो च्चिअ दीसइ गोसे सवत्तिनयणेसु संकंतो ॥६३१॥
[स. श. १०६, गा. स. श. २. ६. ] अत्रैकस्यानेकत्र वृत्तिः । रागस्य च वस्तुतो भेदेऽपि एकतयाध्यवसितत्वादेकत्वमविरुद्धम् ।
'तद्नेहं नतभित्ति' इति । अत्रानेकगृहायेकत्र द्विजे वर्तते । विनिमयः समेन समस्य । यथाआदाय कर्णकिसलयमियमस्मादत्र चरणमर्पयति । उभयोः सदृशविनिमयादन्योन्यमवश्चितं मन्ये ॥६३२॥
___] ___ जो तीए इति । अत्र स एवेति ताम्बूलादिजनितरागकोपनिवृत्तरागयोरभेदोपचारः । यथा वानन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपविष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥५६१॥
[भल्लट. श. श्लो. ४ ]
२०
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org