________________
१३७) अं. ६. सू. १५ ] काव्यानुशसानम्
३७९ __ अत्र निशाशशिनोरुपमेययोरुपोढरागादिश्लिष्टविशेषणबलान्नाय. कयोरुपमानयोः प्रतीतिः ।
१२७) स्वभावाख्यानं जातिः ॥१५॥
अर्थस्य तादवस्थ्यं स्वभावः । स च संस्थानस्थानकव्यापारादिस्तस्य वर्णनं जातिः। विलोलास्तारका ज्योतींषि, नेत्रविभागाश्च यत्र । तथेति झटित्येव, प्रेमरभसेन चाग्रहीतमाभासितम् , परिचुम्बितुमाकान्तं च । निशाया मुखं प्रारम्भः, वदनकोकनदं च । यथेति । झटितिग्रहणेन, प्रेमरभसेन च । तिमिरं च अंशुकाश्च सूक्ष्मा अंशवस्तिमिरांशुकं रश्मिशबलीकृतं तमःपटलम् , तिमिरं वांशुकं नीलजालिका नवोढा प्रौढवधूचिता। न तु तिमिरमेवांशुकमिति व्याख्येयम् । एक- १० विषयरूपकत्वापत्तेः । रागाद्रक्तत्वात्सन्ध्याकृतात् , तदनन्तरं प्रेमरूपाच हेतोः । पुरोऽपि पूर्वस्यां दिशि, अग्रे च । गलितं प्रशान्तं, पतितं च । तया रात्र्या करणभूतया समस्त मिश्रितमुपलक्षणत्वेन वा । न लक्षितं रात्रिप्रारम्भोऽसौ इति न ज्ञातम् । तिमिरशबलितांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते, न तु स्फुट आलोके । नायिकापक्षे तु तयेति कर्तपदं रात्रिपक्षेऽपिशब्दो । लक्षितमित्यस्यानन्तरम् । अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् । यदि वा पुरोऽप्रे तथागृहीतं नायकेन मुखमिति संबन्धः । एतस्याश्च समासोक्तेर्न श्लेषमन्तरेण विविक्तविषयतोपलभ्यत इति लेषेण सह सकराशङ्का न कार्या । येषां ह्यलङ्काराणां विविक्तविषयतयाप्यामलाभः संभवति तेषामेव परस्परसंकीर्यमाणतायां संकरता युक्ता । यथा विरोध. २० व्यतिरेकयोः श्लेषस्य च । श्लेषाभावेऽपि हि 'एकस्यामेव तनौ-' इत्यादी विरोधो, 'यस्यावर्जयतो नित्यम्' इत्यादौ व्यतिरेकश्च दृश्यते । विरोधव्यतिरेकाभावे च ' असावुदयमारूढः' इत्यादौ श्लेषश्चेति । भवतु विरोधलेषयोः श्लेषव्यतिरेकयोश्च संकरत्वम् । समासोक्तिस्तु समानविशेषणाभिधायिभिः श्लेष. पदैरेवात्मानं प्रतिलभत इति नास्या विविक्तो विषय उपलभ्यते । श्लेषाप- २५ वादेनेवास्याः प्रवृत्तेरिति ।
नायकयोरिति । नायकश्च नायिका चेत्येकशेषः ।। तादवस्थ्यमिति । सानुभवैकगोचरा अवस्था यस्य स तस्य
1. C. परिचुम्बित्त 2. A. B. drop °कृतादनन्तरं C. कृनंतर The reading of N. adopted in the text.. , 3. A. drops न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org