SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ২৩৪ काव्यानुशासनम् [ १२४) मे. ६. सू. १२ क्रियया यथा- . पेशलमपि खलवचनं दहतितरां मानसं सतत्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति ॥५८८॥ ५ द्रव्येण यथा क्रौश्चाद्रिद्दामदृषदृढोऽसौ यन्मार्गणानर्गलशातपाते । अभूनवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥५८९।। क्रियायाः क्रियया यथा बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम् । जडयति सन्तापयति च दूरे हदये च मे वसति ॥५९०॥ [ रुद्रट. ९. ३६ ] द्रव्येण यथासीतां ददाह नैवामिहिमं दहति भूरुहः । ताप्यन्ते शशिना चित्रं विरहे कामिनो यशम् ॥५९१॥ द्रन्यस्य द्रव्येण यथा समदमतङ्गजमदजलनि:स्यन्दतरङ्गिणीपरिष्वङ्गात् । क्षितितिलक त्वयि तटजुषि शंकरजटाफ्गापि कालिन्दी॥५९२॥ एवं दश भेदाः । एषु परस्परप्रतिबन्धो विरोधः । व्याघातो यथा अप्यसजनसांगत्ये न वसत्येव वैकृतम् । अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ॥५९३|| [ अत्र क्षालनामावे विशुद्धिाहन्यते । यथा वा- 1. I. निःसङ्ग 2. I. तट ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy