________________
१२४) अ. ६ सू: १२] काव्यानुशासनम्
१२४) अर्थानां विरोधाभासो विरोधः ॥ १२॥
जातिगुणक्रियाद्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्त्याऽविरोधेऽपि परस्परप्रतिबन्धलक्षणो व्याघातलक्षणो वा यो विरोधस्तद्वदाभासमानो विरोधः । तत्र जातेर्जात्या यथा
एकस्यामेव तनौ बिभर्ति युगपन्नरत्वसिंहत्वे । मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ॥५८४॥
[रु. का. ९. ३७ ] गुणेन यथाद्रोणाश्वत्थामरामेषु श्रुत्वा श्रुत्वा द्वयं स्थितम् । ब्राह्मण्यमथ शौर्य च को न चित्रीयते पुमान् ॥५८५॥ क्रियया यथा-'सिंहोऽपि परिभूयते' । द्रव्येण यथा-- सजति च जगदिदमवति च संहरति च हेलचैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥५८६॥
१.
१५
२.
गुणस्य गुणेन यथा-- सत्यं त्वमेव सरलो जगति जराजनितकुब्जभासोऽपि । ब्रह्मन् परमसि विमलो वितताध्वरघूममलिनोऽपि ॥५८७॥
[ रु. का. ९-३५] व्याघात इति । एकतरप्रतिबन्धरूपः ।
सदाभासमान इति । अयं भावः-विशेषविवक्षयेत्वत्राप्यनुवर्तमानत्वात् , यत्र भावान्तरेभ्यो वैशिष्टयं ख्यापयितुमामुखे विरोधप्रतीतिकारि म तु विरोधपर्यवसायि वचस्तत्रायं विरोधालहारः, यत्र पुनः परिहारासंभवस्तत्र ध्याहतत्वदोष इति ।
सत्यं त्वमेवेति । अत्र सरलविमलशब्दयोरेकार्थत्वात् , लिष्टता न समस्तीति संकराशङ्का न कार्या । चेतसो हि सरलवाद्विमलस्वाञ्च सोऽपि सरलविमलः ।
1. I. वायो 2. I. °यमेध 3. I. 4. N भावो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org