SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ काच्यानुशासनम् [१२३) अ. ६. सू. ११ उक्तविषयोऽपि यथाज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवनः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्करव्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे ॥५८०॥ उपमानाक्षेपो यथातस्यास्तन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥ ५८१ ॥ या वागर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भग्ने । सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ॥५८२॥ [रु. का. ८. ७८ ] अत्र लोचनयुगलस्योपमानीकृतस्याक्षेपः । यथा वाअहमेव गुरुः सुदारुणानामिति हालाहल ताल मा स्म दृप्यः । ननुसन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम्५८३ अत्र हालाहलस्योपमानस्याक्षेप इति न प्रतीपमलङ्कारान्तरम् । २० ..किममेनेति । त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गव्यापारहेतवस्तस्या भव न्तीत्यप्रसिद्धोऽयमर्थ इत्यस्य प्रतिपादनाथ । ___1. I. °शौ च यदि ते 2. I. L किशलयैः 3. P. I ही + भद्रे in Rudrata's Kavayalamkara, which seems to be the correct reading. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy