________________
५
१२३) अ. ६ सं. ११ ] काव्यानुशासनम्
अत्रैकस्य युगपदनेकवृत्तित्वायोगेऽपि योग उक्तः । एवंविधे च सर्वत्र विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तां विना प्रायेणालकरणत्वायोगादिति न सामान्यमीलितैकावलीनिदर्शनाविशेषाद्यलङ्कारोपन्यासः श्रेयान् ।
१२३) विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः ।११।
विशेषविवक्षयेत्यनुवर्तते । वक्तुमिष्टस्य प्राकरणिकत्वात्प्रधानस्याशक्यवक्तव्यत्वमतिसिद्धत्वं वा विशेषं वक्तुं निषेध इव न तु निषेध एव निषेधमुखेन विशेष एव तात्पर्यादित्येक आक्षेपः । उपमानस्य च य आक्षेपस्तिरस्कारः सोऽन्यः। निषेधो यथा
अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः। इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥ ५७९ ॥ अयं वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः । अलारणत्वायोगादिति । तथा चाह(152) सैषा सर्वैव वक्रोक्तिरनयाथों विभाव्यते ।। यनोऽस्या कविना कार्यः कोऽलारोऽनया विना ॥ इति ॥
[ भामह. का. लं. परि. २. 'लो. ८५] सामान्येति । 'मल्लिका-' इत्यादी सामान्यम् , 'अपाङ्गतरले' इति 'एन्तोवि' इत्यनयोमीलितम् , 'पुराणि' इति 'न तज्जलम्' इत्यनयोरेकावली, 'उदयति' इत्यादौ निदर्शना, "दिवमप्युपयातानाम्' इति 'हृदये चक्षुषि' इत्य- नयोर्विशेषचालधारो यथान्यैः प्रदर्शितस्तथा न दर्शनीय इति ।
अशक्यवक्तव्यत्वमिति । वक्ष्यमाणविषयतामाह
अतिसिद्धरवमिति । अतिप्रसिद्धत्वम् । अनेनोक्तविषयतामाह । 'किमुक्तेनाप्रियेण ते' इति त्वददर्शनात्तास्ता अवस्था या वक्तुमपि न शक्यन्त इत्यस्यार्थस्य प्रतिपत्तये ।।
1. I. त्या
2. I. पक्ष्यमाये प्ररणयो which is meaningless. It is a corruption of वक्ष्यमाणमरणविषयो
२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org