________________
१२१) अ. ६ सू. ९ ] काव्यानुशासनम्
इतो वसति केशवः पुरमितस्तदीयद्विषा
1
2
मितोऽपि शरणागताः शिखरिपक्षिणः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकै -
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः || ५६५ ॥
[ भ. नी. श. श्लो. ६७ ] अत्र निन्दा स्तुतिर्वा विस्मयोक्तावेवास्तमयत इत्यनुभयरूपा । १२१) व्ययस्योक्तिः पर्यायोक्तम् ||९||
व्यङ्ग्यस्य प्रतीयमानस्यार्थस्याभिधानं यत्तत्पर्यायेण भङ्गयन्तरेण कथनं पर्यायोक्तम् । अत एव चान्योक्तेरस्य भेदः । न हि तत्र गम्यमानस्यार्थस्य भङ्गयन्तरेणाभिधानमपि त्वप्रस्तुतद्वारेण तस्याक्षेप इति । यथा
3
शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः ।
रामस्यानेन धनुषा देशिता धर्मदेशना ॥ १६६ ॥ [
]
अत्र भीष्मेण भार्गवो जित इति व्यङ्गयस्य 'देशिता धर्मदेशना '
इत्यनया भङ्गया भणनम् ।
व्यङ्ग्यस्येति । योग्यतया निर्देशः ।
अनया भङ्गन्या भणनमिति । देशिता धर्मदेशनेति भङ्गयन्तररचितशब्दैरित्यर्थः । तेन यद्भङ्गयन्तरेणोच्यते तद्वयङ्गयम् । यथा त्वेकघनरूपतात्मकप्रकारेण व्ययं प्रतीयते, न तथा वक्तुं शक्यते । क्रमभावि विकल्पप्रभवानां शब्दानां तथाभिधानशक्तेरभावात् । यथा गवि शुक्ले चलति दृष्टे गौः शुक्लवल इति विकल्पो यदेव दृष्टमभ्यासपाटवापेक्षी तदेव विकल्पयति न तु यथादृष्टम् । अशेषविशेषावच्छिन्नस्वलक्षणाकारतयानुभवस्योत्पत्तेः । तथा - अभिनासंसृष्टत्वेन दृष्टं भेदसंसर्गाभ्यां विकल्पयति । निरंशस्य वस्तुनो भेदसंसर्गयोरभावात् । तौ हि विकल्पस्यैव व्यापारः । स भिन्नमपि वस्तु गौः शुक्लश्चल इत्येवं भिनत्ति । भिन्नमपि पदार्थजातमयं गौरयमपि गौरित्येवं संसृजति ।
०
1. L णाभिनः 2. L. पत्रिणः 3. L ढे कस्य 4. A. drops शब्दानां
Jain Education International
३६७
For Private & Personal Use Only
१०
१५
२०
२५
www.jainelibrary.org