________________
काव्यानुशासनम् [१२०) अ. ६ सू. ८ अत्रार्णवस्य गर्हणयाऽन्यायोपार्जितधनत्वादिप्रतीयमानसादृश्यः कश्चित्पुरुषविशेष आक्षिप्यते ।
विशेष्यश्लिष्टता तु अन्योक्तिप्रयोजकतया न वाच्या । यथापुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि
यायाद्यदि प्रणयनेन महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन ॥१६३॥
[ भल्लट. श. श्लो. ७९ ] अत्र पुरुषोत्तमशब्दस्यार्थद्वयवाचकत्वेऽपि सत्पुरुषचरितस्य प्रस्तुतत्वादभिधा एकत्र नियन्त्रितेति सत्पुरुष एव वाच्यो न विष्णुस्तच्चरितस्याप्रकृतत्वात् । तत्प्रतिपत्तिस्तु शब्दशक्तिमूलाद् ध्वनेरेव । यद्यपि च सत्पुरुषस्य विष्णोरिव विश्वोद्धरणे शक्तिर्नास्ति तथापि गुणवृत्त्या संभवतीति न दोषः ।
अन्योक्तिश्च क्वचित्स्तुतिरूपा, यथा-'नालस्य प्रसरः' इति । १५ क्वचिनिन्दारूपा, यथा-'आदाय वारि' इति । क्वचिदुभयरूपा,
यथानिष्कन्दामरविन्दिनी स्थपुटितोदेशां स्थली पल्वले जम्बालाविलमम्बु कर्तुमितरा सूते वराकी सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ॥१६॥
अत्र पूर्वार्धे निन्दा, उत्तरार्धे तु स्तुतिः । क्वचिदनुभयरूपा यथा1. N. तत्प्रतीतिस्तु 2. I. कशेरुस्थली, L. स्थली drops पल्वले3. I. वराही 4. I. वसुमती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org