________________
१०
काव्यानुशासनम् [१२०) अ. ६ सू. ८ ऐरावणं स्पृशति मन्त्रयते मरुद्भि
वज्रं परामृशति पश्यति योधसार्थान् । मेरोस्तटानि विषमीकुरुते महेन्द्र
स्वच्छङ्कया निशि न याति नरेन्द्रनिद्राम ॥५५७।।
अत्र त्वय्युद्युक्ते न कश्चित् सुखं शेत इति सामान्ये प्रस्तुते विशेष उक्तः।
अहो संसारनैपुण्यमहो दौरात्म्यमापदाम् । अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥५५८॥ [ ]
अत्र क्वापि वस्तुनि विनष्टे विशेषात्मनि प्रस्तुते दैवस्वातन्त्र्यं .. सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितम् ।। र्थतत्त्वं कौस्तुभादिभ्योऽप्युत्तमम् । अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तं सदृशं यस्य तथाभूतं प्रतिग्राहम् , एकैको प्राहो जलचरः प्राणी, ऐरावणोच्चैःश्रवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् । इयति चार्थे साम्यादुपमालङ्कारोऽनन्तरं तु स्वात्मनि विस्मयधामतयाद्भुते विश्रान्तिः, परस्य च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत् कतिपयसमुचितजनानुप्राहक कृतमिति खात्मनि कुशलकारितादर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् । अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । अप्रेक्षापूर्वकारित्वमात्मन्यावेदितं चेत्किं ततः, स्वार्थपरार्थासंभवादिति । तदनेन निर्विवादतदीयश्लोकेनैव तदभिप्रायस्य परिदेवितविषयस्य संवाद्यमानत्वात्पूर्वत्राप्यन्योक्तिरेव संभाव्यते । तत्रापि चाद्भुताखादपुरःसरा वीररसविधान्तिपरतानुसन्धेयेति । तर्हि यत्र प्रकरणमेव किंचिन्नास्ति तत्र कोऽलङ्कारः । यथा'निग्गण्डदुरारोहम्-' इति
उच्यते । यत्रोभयोरलङ्कारयोरन्यतरपरिग्रहे न दोषः, नापि साधकं प्रमाणम् , तत्र संकरालङ्कारो वक्ष्यते । अत्र च. शठतरपोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति संकरालङ्कार एव । अन्ये त्वाहुः--यत एवं प्रकरणापरिज्ञानमत एवात्र प्राधान्येन पाटलोपवर्णने क इव वस्तुपरिपोष इत्यन्यपरत्वे प्रवृत्तिनिवृत्ती प्रत्युपदेशाय शास्त्रमिव श्लोकाः कल्पन्त इति समासोक्तिपरिग्रहे कुतो दोषाभावः । तस्मादन्योक्तिरेवेयमिति ।
1. A. B. एवं 2. A. B. पादलोपवर्णने
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org