________________
१२०) अं. ६ सूं. ८ ]
काव्यानुशासनम्
लोकस्य न निर्मितस्येत्यर्थः । निन्दाद्वारिका स्तुतिरत्र प्रतीयत इति व्याजस्तुतिरिति केचित् । तच न चतुरस्रम् । यतोऽस्याभिधेयस्यैतदलंकारस्वरूपमात्रपर्यवसायित्वेन श्लिष्टता । तथा हि-न तावदयं रागिणः कस्यचिद्विकल्पस्तस्य एषापि इत्येवंविधोक्त्यनुपपत्तेः । रागिणो हि वराकी हृता इति कृपालिङ्गितममङ्गलोपहतं चानुचितं वचनम् । तुल्यरमणाभावादिति स्वात्मन्यत्यन्तमनुचितम् । आत्मन्यपि हि तद्रूपासंभावनायां रागितायां च पशुप्रायत्वं स्यात् । नापि नीरागस्य, तस्यैवंविधविकल्पपरिहारैकव्यापारत्वात् । ननु च रागिणोऽपि कुतश्चित्कारणात् परिगृहीतकतिपयकालव्रतस्य वा, रावणप्रायस्य वा सीतादिविषये, दुष्यन्तप्रायस्य वाऽनिर्ज्ञातजातिविशेषे शकुन्तलादौ किमियं स्वसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति । वीतरागस्यापि बानादिकालाभ्यस्तरागवासनावासिततया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिर्न संभाव्या । न हि वीतरागो विपर्यस्तान् भावान् पश्यति । न ह्यस्य वीणाक्वणितं काकरटितकल्पं प्रतिभाति । तस्मात्प्रस्तुतानुसारेण उभयस्यापीयमुक्तिरुपपद्यते । अन्योक्तावपि प्रस्तुतः संभवन्नेवार्थो वक्तव्यः । न हि तेजसीत्थमन्योक्तिर्भवति - ' अहो धिक् ते कार्ण्यम्' इति । स परं प्रस्तुतपरतयेति नात्रासंभवः, १५ किं तर्हि सुश्चिष्टतैवेति । सत्यमेतत् । किं तु न ययं श्लोकः क्वचित्प्रबन्ध इति श्रूयते येन तत्प्रकरणानुगुणार्थतास्य परिकल्पयते तस्मादन्योक्तिरेवेयम् । यस्मादनेन वाच्येन गुणीकृतात्मना नि:सामान्यगुणावलेपाध्मातस्य निजमहिमोत्कर्षजनित समत्सर जनज्वरस्य विशेषज्ञमात्मनो न किंचिदेवापरं पश्यत: परिदेवितमेतदिति प्रकाश्यते । निःसामान्येति निजमहिमेति विशेषज्ञमिति - अभीषां चतुणी वाक्यखण्डानामर्थस्य क्रमेण पादचतुष्टयतात्पर्यतया प्रतीयमानत्वात् । तथा चायं विनिश्चयवृत्त्यन्ते धर्मकीर्त्याचार्यस्य लोक इति प्रसिद्धिः । एतदर्थसंसूचकचापरोऽपि हि स्फुट एव तस्य लोको विद्वद्भिः परिपठ्यते ।
3
यथा---
३६३
]
अनध्यवसितावगाहनमनल्पधीश क्तिनाप्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि । मतं मम जगत्यलब्धसदृशप्रतिग्राहृकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जराम्।५५३॥ [ धर्मकीर्ते: अवगाहनमध्यवसितमपि न यत्र, आस्तां तस्य संपादनम् । परमं यद1. A. B. परिकल्पते 2. A. B. विनिश्चितवृत्य • C. विनिश्वेयवृत्य • 3. C. drops यथा. 4. A. drops पयोनि C. पयोनिधिः .
Jain Education International
For Private & Personal Use Only
१०
२०
२५
www.jainelibrary.org