________________
३६२
१०
१५
२५
काव्यानुशासनम्
[ १२० ) अ. ६. सू. ८
विशेषभूतः स कालमात्र संबन्धिना सकलवियोगिनीव्यापारेण सामान्यरूपेण समर्थितः । यद्यप्युत्प्रेक्षाप्यत्रास्ते, तथापि ' प्रधानेन व्यपदेशा भवन्ति ' इति न्यायोऽत्रानुसर्तव्यः । यद्वा संकर एवास्तु न तावदन्योक्तिरियम् । तथा विअसन्तरअक्खउरं ' इत्यत्रापि वृत्तान्तरोपनिबन्धनोपस्थितेऽर्थे रामसमुद्रव्यापाररूपे वृत्तान्तरेण ऋतुमव्यापारात्मनस्तत्प्रतिबिम्बस्य निदर्शितत्वान्निदर्शनालङ्कारव ।
८
विकसद्रजः कर्बुरं मकरन्दरसमितमुखरमधुकरम् ।
1
ऋतुना द्रुमाणां दीयते ह्रियते न पुनरात्मनैव कुसुमम् ॥५५१॥ [ इत्यर्थः । ऋतुरत्र वसन्तः । कुसुममिति जातावेकवचनम् । अथात्र कोऽलङ्कारः
लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृत:
स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः । एषापि स्वयमेव तुल्यरमणाभावाद्वरा की हता
atsafe वेधसा विनिहितस्तन्न्यास्तनुं तन्वता ॥ ५५२ ॥ [ सुभा श्लो. १४७२ धर्मकीर्तेः ] द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपयोगित्वमुक्तम् । गणित इति । चिरेण हि यो व्ययः संपद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् । अनन्तकालनिर्माणकारिणोऽपि तु विधेर्न विवेकलेशोऽप्युदभूदिति परमस्याप्रेक्षावत्त्वम् । अत एवाह -क्लेशो महानिति । अनेन प्रत्युतानर्थप्राप्तिरुक्ता । एवमपि यदि परस्योपकारः स्यात्तदा को दोष इत्याशङ्कयाह-स्वच्छ न्दस्येति । परार्थोऽपि न कश्चित् यतो विशृङ्खलस्य जनस्यैतदभिलाषजननेन प्रथमेऽभिलाषो द्वितीये चिन्तनम्' इति चिन्तानलो दीपितः । येन सर्वमन्यत्परित्यज्यैतत्प्राप्त्युपायान्वेषणपरः संजातः । न चाप्यस्याः कश्चित्स्वार्थोऽनर्थलावण्यसुन्दरतरतनुलतानिर्माणे प्रत्युत समुचितवल्लभलाभाभावा संप्राप्तसंभोगविफलमनोरथा वञ्चितैवेयं वराकीत्याह - एषापीति । यत्स्वयं निर्भीयते तदेतदेव च निहन्यत इति महद्वैशसमपिशब्देनैवकारेण चोक्तम् । कोऽर्थ इति । न स्वात्मनो न
2
+
4
1. B. drops from न पुनरात्मा to महद्वैशंसशब्देन. 2. A. drops. प्रत्युतानर्थ. 3. A drops तर. + B. resumes from नैवकारेण चोक्तं,
4. A. B. न त्वात्मनो
Jain Education International
]
For Private & Personal Use Only
www.jainelibrary.org