________________
१२०) अ. ६. सू. ८] काव्यानुशासनम्
३६१
सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा । सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसावन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥५४८॥
[ भल्लटशतक. 'लो. १८ ] ५ रसनाविपर्ययोऽसत्यभाषित्वमपि । चापलमश्रोतव्यश्रवणमपि । मदो गोंऽपि । शून्यकरत्वमपि । अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः, मदः प्रत्युत सेवने निमित्तमिति ।।
ननु यत्राप्रस्तुतं वस्तु प्रस्तुतार्थानुबन्धि कथ्यते, तत्र यद्यन्योक्तित्वमभिधीयते, तदा सहस्रमायप्रयाणे भटीनां प्रियविरहोत्कण्ठितानामनेकविधव्यापारोप- १० वर्णने भूतकालसंबन्धिनि प्रस्तुते
औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुला क्वापि मतिः प्रयाति । निरत्ययप्रेमनिबन्धनं च वियोगकाले द्रवतीव चेतः ॥ ५४९ ॥ [ ] इत्यप्रस्तुतार्थाभिधायिनि श्लोकान्तरे। तथा समुद्रेण राम प्रति
त्वयैव मत्यमिय स्थितिर्दत्ता । यामनुपालयता मया भवान्विष्णुरारोषितः। १५
इति प्रस्तुत्योपन्यस्तेविअसन्तरअक्खउरं मअरन्दरसुद्धमायमुहलमहुअरम् । उउणा दुमाण दिज्जइ हीरइ न उणाइ अप्पण च्चिअ कुसुमम् ॥५५०॥
] २० इत्यप्रस्तुतार्थप्रतिपादके छन्दोन्तरे च अन्योक्तित्वप्रसङ्गः । अत्र हि वृत्तद्वये उपवर्ण्यमानेनाप्रस्तुतेनार्थेन वृत्तान्तरोपनिबद्धः प्रस्तुतोऽर्थोऽनुसंबध्यते । नैवम् । यत्र हि तस्मिन्नैव वाक्येऽभिधीयमानेनाप्रस्तुतेनार्थेन शब्दानुरूपारूढस्यापि प्रस्तुतस्यार्थस्य सारूप्यादिमिराक्षेपः सोऽन्योक्तेविषयः, यत्र त्वेकस्मिन्नेव वाक्ये वाक्यद्वये वा समर्थ्यसमर्थकतया बिम्बप्रतिबिम्बभावेन वा प्रस्तुताप्रस्तुतयोरभिधयैव संस्पर्शों वाक्यैकवाक्यता च सोऽर्थान्तरन्यासस्य निदर्शनस्य वा विषयः । एवं च औत्सुक्यगर्भा '-इत्यादौ, यद्यपि श्लोकान्तरे समर्थ्यस्य वस्तुन उपक्रान्तत्वाच्छोकान्तरेण तथाभूतमप्रस्तुतमेव प्रस्तुतार्थाभिसंबन्धि वस्तूपनिबध्यते, तथापि नान्योक्तिरिति वक्तव्यम् । अपि त्वर्थान्तरन्यास एवासौ। अत्र हि वृत्तान्तरेणोपक्षिप्तो योऽसौ भटीनां वियोगजनितो व्यापारो भूतकालसंबन्धी ३०
1. A. B. drop. प्रिय
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org