________________
३६०
१०
१५
२०
२५
काव्यानुशासनम्
[ १२०) अ. ६. सू. ८
तस्यास्य स्मितमात्रकेण जनयजीवापहारक्रियां
भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ॥५४५ ॥
[ भल्लटश छो. १०२ ] अत्र यद्यपि सारूप्यवशेन कृतघ्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तुतस्य वेतालवृत्तान्तस्यापि चमत्कारकारित्वं न ह्यचेतनोपालम्भवदसंभाव्यमानोऽयमर्थ इति । एषु वाच्ये विवक्षितस्वरूपमेव, न च प्रस्तुतम् । यत आद्ययोर्द्वयोर्महा गुणस्याविषयपतितत्वादप्राप्तपरभागस्य तृतीये च कृतघ्नस्य कस्यचित्स्वरूपं वर्णयितुं तात्पर्येण प्रस्तुतमिति । अविवक्षितत्वं यथा—
1
"
श्रय
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ॥ ५४६॥ [ कथयामीत्यादि प्रत्युक्तिः । अनेन पदेनेदमाह - 'अकथनीयमेतत्, माणं हि निर्वेदाय भवति, तथापि तु यद्यनुबन्धस्तत्कथयामि । वैराग्यादिति । काववा दैवहतकमित्यादिना च सूचितं ते वैराग्यमिति यावत् । साधु विदितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादि सनिर्वेदस्मरणोपक्रमं कथं कथमपि निरूपणीयतयोत्तरम् । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थः । वट इति । छायामात्रकरणादेव फलदानशून्यादुदुरकन्धर इत्यर्थः । छायापीति । शाखोटको हि श्मशानाग्निज्वालालीढलतापल्लवादितरुविशेषः । न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती संभवत इति अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवासिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते । विवक्षितत्वं यथाउपजायाऍ असोहिरीऍ फलकुसुमपत्तरहिआए ।
Jain Education International
बोरीएँ वई देन्तो पामर हो हो हसिज्जिहसि ॥५४७॥ [
1
3
अत्र वाच्योऽर्थो नात्यन्तं संभवी न चासंभवीति वा वक्तुं शक्यम्, व्यङ्गयस्यापि भावात् । तथा हि-उत्पथजाताया इति न तथा कुलोद्गतायाः । अशोभनाया इति लावण्यरहितायाः । फलकुसुमपत्ररहिताया इति । एवंभूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्णतया संबन्धिवर्गपोषिका वा परिरक्ष्यते । बदर्या वृत्तिं ददत्पामर भो भो हसिष्यसे । सकललोकैरिति भावः । यथा वा
1. C. drops च 24. N. समीपे वा 3. N. वा न वक्तुं
1
For Private & Personal Use Only
www.jainelibrary.org