________________
१२०) अ. ६ सू. ८ ] काव्यानुशासनम्
धानेनेत्यादि । सान्तरेण शब्दव्यापारेण गोचरीक्रियमाणः प्राकरणिको योऽर्थस्तेन सहाप्रस्तुतस्य कार्यकारणभावादौ सबन्धे सति सहृदयहृदयावर्जकमलङ्काररूपत्वमेतस्या इत्यर्थः । तुल्ये प्रस्तुते यत्र तुल्यस्याप्रस्तुतस्याभिधानं तत्र विशेषो विशेषेण प्रतीयत इति पूर्वाभ्यो भेदः । अन्योक्तौ च यदाच्यं तस्य । कदाचिद्विवक्षितत्वं कदाचिदविवक्षितत्वं कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी ५ बन्धच्छाया । तत्र विवक्षितत्वं यथा
परार्थे यः पीडामनुभवति भजेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोदोषोऽसौ न पुनरगुणाया मरुभुषः ॥५४३।।
१०
[ भालटशतक. श्लो. ५६ ] इक्षौ पीडनं पीडा, सत्पुरुषे तु पराथोंद्यते तदर्थ क्लेशः । भङ्गोऽपीक्षी प्रन्थित्रोटनम् , सत्पुरुषे तु धनाभावनिमित्तो विप्लवः । इक्षोर्माधुर्यमास्वाधलक्षणो गुणः, सत्पुरुषे त्वनुल्बणत्वम् । इक्षोर्विकारः शर्करागुडखण्डादि सत्पुरुषे तु चित्तविक्रिया । न हि सत्पुरुषा विकृत्यवस्थायामप्यसेव्याः। उल्बणत्वाभावात् । १५ इक्षारक्षेत्रमूषरम्, सत्पुरुषे निर्विवेकस्वाम्यादिस्थानम् । यथा वा
अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके देने कथमिदमहो चक्षुरघुना
समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥५४॥ [ ] २० नन्विति । यैर्जगदिदं भूषितमित्यर्थः । यस्य चक्षुषो विषयतां क्षणं गतानामेषां सफलता भवति तदिदं चक्षुरिति सम्बन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि वरं स्पर्शादानादावप्युपयोगी। अवयवैरिति । अतितुच्छप्रायरित्यर्थः । अत्र अविचारकजनाकुले काले कश्चिन्महापुरुषः कुस्वामिभिरितरजनसमसत्कारतया ततोऽपि चाप्रयोजनतया न्यूनसत्कारतया खलीक्रियमाणः २५ प्रस्तुतः । यथा च
प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः। स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपा पुरः ।। I. A. B. drop शब्दव्यापारेण 2. A. drops one हृदय 3. A. अन्योभेदः after भेदः
Jain Education International
For Private & Personal Use Only
Only
:
www.jainelibrary.org