SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३५८ काव्यानुशासनम् [१२०) अ. ६ सू. ८ अप्रकृतानां यथाकुमुदकमलनीलनीरजालिललितविलासजुषोदृशोः पुरः का। अमृतममृतरश्मिरम्बुजन्मप्रतिहतमेकपदे त्वदाननस्य ॥५५५॥ स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥५७३। इत्यादौ तु जातेरेव चमत्कारो न दीपकस्येति कारकदीपकं न लक्ष्यते। १२०) सामान्यविशेष कार्ये कारणे प्रस्तुते तदन्यस्य १० तुल्ये तुल्यस्य चोक्तिरन्योक्तिः ॥८॥ ___सामान्ये प्रस्तुते तदन्यस्य विशेषस्य, विशेषे सामान्यस्य, कार्ये कारणस्य, कारणे कार्यस्थ, सदृशे सदृशस्य चान्यस्याप्रस्तुतस्योक्तिरभिधानमन्योक्तिः । अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेप इत्यर्थः । यथा कुमुदेति । अत्र कुमुदादीनि अमृतादीनि चाप्राकरणिकानि दृशोराननस्य च प्रकृतस्य वर्ण्यमानत्वात् । यथा वा दृष्टा सा नवा दृष्टा मुषिताः सममेव ते ।। हृतं हृदयमेकेषामन्येषां जन्मनः फलम् ॥५४२॥ [ अत्र प्रियतमा प्राकरणिकी प्रति अवलोकयितॄणामनवलोकयितृणां चाप्राक२. रणिकानां मुषितत्वमेको धर्म इति । एवं च तुल्ययोगिता पृथङ न वाच्या इति । ननु च कारकदीपकमन्यैरुक्तं तत्कि नोच्यते-इत्याशङ्कयाह-स्विद्यतीत्यादि । अप्रस्तुतस्येति । उपमानस्य वर्णनावसरादपेतत्वादप्राकरणिकस्येत्यर्थः । अभिधानमिति । स्तुतिनिन्दोभयानुभयरूपम् । ___ ननु चाप्रस्तुतपदार्थस्वरूपोक्तावसंबद्धभाषिता नालङ्कारगन्धोऽपि । तथा हिपर्वतोपवर्णनायां कः समुद्रस्वरूपमुपवर्णयेत् । उपवर्णने वा शिष्टविगर्हणमवश्यं भावीत्याशय, अन्योक्तिशब्दार्थ प्रकटीचिकीर्षुराह-अप्राकरणिकस्याभि 1. A. drops हृतं 2. N. च प्रा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy