________________
३५७
११९) अ. ६ सू. ७ ] काव्यानुशासनम्
मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् । स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् ॥५५२॥
अत्र मदादौ यत्प्राकरणिकतया विवक्ष्यते तदुपमेयं शेषाण्युपमानानि । न च क्रमिकत्वमुपमा रुणद्धीति वाच्यम् ।
राम इव दशरथोऽभूदशरथ इव रघुरजोऽपि रघुसदृशः । अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ॥५५३॥
१०
इत्यादौ ऋमिकत्वेऽप्युपमादर्शनात् । प्रकृतानां धर्मैक्यं यथा'पाण्डुक्षामं वदनम्' इति । यथा वा
हंसाण सरेहिं सिरी सारिजइ अह सराण हंसेहिं । अण्णोण्णं चिअ एए अप्पाणं नवर गरुएत्ति ॥५५४॥
[स. श. ९५३ ] ननु रुद्रटप्रभृतिभिर्वास्तवभेदतयापि दीपकं प्रतिपादितम् , तत्र च कथमौपम्यं स्यादित्याशङ्कथ निदर्शयति-मद इति । मदः सुरादिपानविकार- १५ विशेषः । मानभर मानभजनशीलम् । यद्वा मानो भङ्गुरो यत्रेति समासः । क्रियादेर्धर्मस्यैकस्यैव वाक्यार्थेष्वनेकेष्वपि साधारणतयोपादीयमानत्वादत्रौपम्य बलादापतति । तत्रापि यद्विवक्षितं तदुपमेयमित्तरत्तपमानमिति । अत एव रुद्रटोक्त औपम्यसमुच्चयोऽपि दीपकमेव तुल्यस्वभावत्वादिति ।
हंसाणेति । अत्र हंसानां श्रीः सरोभिः सरसां च हंसैः सार्यत इति २० सारणक्रियया एकयैव हंससरसोः प्राकरणिकयोः संबन्ध इति अन्योन्यनामालवारो न दीपकतामतिकामति । यथा वा
कण्ठस्थ तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्त्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥५४१॥ इति ।
[ कु. सं. स. १. लो. ४२ ] २५ अत्र कण्ठमुक्ताकलापयोः प्राकरणिकयोरन्योन्यं भूष्यभूषणभाव इति । 1. I. क्रमैकत्वं 2. I. गरुअन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org