________________
३५६
५
१०
१५
२५
काव्यानुशासनम् ११९) अ. ६. सू. ७ ]
अत्र काव्यकथा प्रकृता शेषाण्यप्रकृतानि । गुरुकीकरणमेका क्रिया ।
यथा वा
मयूखैश्च निशाया गुरुकीकरणं भास्वरत्वसेव्यतादि यत्क्रियते, कमलैर्नलिन्याः शोभा परिमललक्ष्म्यादि, कुसुमगुच्छैर्लताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुखकरत्वमनोहरत्वादि, तत्सर्व काव्यकथायाः सज्जनैरत्येतावानयमथ गुरुकीक्रियते इत्येतदीपकबलाच्चकास्ति । कथाशब्द इदमाह - आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः, सज्जनैर्विना काव्यकथा काव्यमित्येष शब्दोऽपि विध्वंसते | तेषु तु सत्सु आस्तां सुभगं काव्य काव्यशब्दस्य व्यपदेशभागपि शब्दसन्दर्भमात्रं तथा तथा तैः क्रियते यथादरणीयतां प्रतिपद्यते ।
ननु यदि क्रियापदोपनिबन्धो दीपकम् तर्हि न तदलङ्कारः । क्रियापदे हि सति वाक्यपरिसमाप्तिः प्रतीयते, न पुनरर्थातिशयः, विना क्रियापदं वाक्यमेव किंचिन्नास्ति यदवोचाम ' सविशेषणमाख्यातं वाक्यम्' इति । आख्यातशब्देन चात्राख्यातान्तं पदमुच्यते, तस्यैव क्रियावाचकत्वात् । तेनात्र कुतः कस्यातिशयः शास्त्रारम्भवैयर्थ्याच्च । तथा हि-अलङ्कारशून्यं काव्यं मा भूदिति कवीनामलङ्कारव्युत्पत्तिः क्रियते । क्रियापदस्य च दीपकत्वे सर्व काव्यं सालङ्कारमिति नार्थोऽनेन ग्रन्थेन । अलङ्कारभेदप्रज्ञापनार्थोऽयं ग्रन्थ इति चेत्, तेनैव तावज्ज्ञापितेन को ऽर्थः सर्वथा सालङ्कारं काव्यं विधेयम् । तत्र यद्य - लङ्कारान्तरं काकतालीयेन भवति तदा शोभनमेव, नो चेद्दीपकमचस्थितमेव । किं व संकरस्योच्छेदप्रसङ्गान्न क्रियापदं दीपकालङ्कारः । पृथक् पृथग् लब्धात्मनामलङ्काराणामेकवाक्यसंसर्गे संकरः । न च क्रियापदस्य दीपकत्वे रूपकादयोSलङ्कारा दीपकात्पृथगात्मानं लब्धुमुत्सहते । तस्मान्न क्रियापदं दीपकम् । सत्यम् । न क्रियापदमात्रमस्माकं दीपकम् । किं तु बहुभिः समानजातीयैः कारकविशेषैर मिसंबध्यमानम् । तस्य चानेकेष्वर्थेष्वभिसंबध्यमानस्यार्थादन्वयिरूपं यत्तत्साम्यमुच्यते । प्राकरणिकाप्राकारणिकत्वाभ्यां च तेषामर्थानामुपमानोपमेयभावो गम्यमानो न श्रौतः अत एव च दीपकमुपमातो भिद्यते । यत्रापि प्राकरणिका एव अप्राकरणिका एव वा पदार्था एकधर्मानुगता वर्ण्यन्ते, तत्रापि तेषां परस्परं किञ्चित्साम्यं विज्ञेयमेव ।
3
1
1. A. B. संकरो छेद
2. A. B. drop from दीपकालंकार to क्रियापदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org