________________
३५५
११९) अ. ६ स. ७] काव्यानुशासनम्
एते साधर्येण निदर्शनप्रकाराः । वैवर्येण यथागुणानामेव दौरात्म्याधुरि धुर्यो नियुज्यते ।। असंजातकिणस्कन्धः सुखं जीवति गौर्गलिः ॥५४९॥ [ ] तवाहवे साहसकर्मनर्मणः पाणिं कृपाणान्तिकमानिनीषतः । ५ भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पासवः।।५५०॥ इति । ११९) प्रकृतापकृतानां धर्मैक्यं दीपकम् ॥७॥
बहुवचनं समस्तव्यस्तपरिग्रहार्थम् । तेन प्रकृताप्रकृतानां प्राकरणिकाप्राकरणिकानामर्थादुपमानोपमेयत्वेन प्रकृतानामप्रकृतानां च १० केवलानां धर्मक्रियादिर्यदैक एव प्रयुज्यते तदा दीपवदेकस्थानस्थमनेकदीपनाद्दीपकम् । यथा
चंदमऊहेहिं निसा णलिणी कमलेहिं कुसुमगुच्छेहिं लया । हंसेहिं सरयसोहा कव्वकहा सज्जणेहिं कोरई गरुई ॥५५१॥
] १५ इत्येवं लक्षणत्वात् । अत्रोच्यते-क्व सूर्येत्यादौ दार्टान्तिके वस्तुसंबन्धस्य असंभवः दृष्टान्ते वा, अल्पविषयमत्या सूर्यवंशस्य वर्णनमसंभवदिति दान्तिके वस्तुसंबन्धस्यासंभव इति चेत्, न यत्र वाक्येऽसंभनेवार्थः प्रतिपाद्यते, तत्र कथमभवद्वस्तुसंबन्धता। स्यादेवं यदि प्रतिपाद्यमानस्यार्थस्य वाक्ये कश्चिदसंबन्धः स्यात् । तस्मान दान्तिके वस्तुसंबन्धस्यासंभवः दार्टान्तिकप्रतिबिम्बरूपत्वाच दृष्टान्तस्य दृष्टान्तेऽप्ययमेव न्यायः । 'उदयति विततोलरश्मिरज्जौ'इत्यादौ तु अतिशयोक्तिभेदत्वं वक्ष्यते । 'अत्युच्चपदाध्यासः' इत्यत्र तु सामान्य दृष्टान्तेन समर्थ्यते । साक्षाक्रियापि तदर्थान्वयख्यापनं कुर्वती न दृष्टान्तात्प्रच्यवत इति ।
चन्दमऊहेहिं इति । चन्द्रमयूखादीनामपि न निशादिना विना कोऽपि २५ परभागलाभः । ततः सज्जनानामपि काव्यका विना कीदशी साधुजनता। चन्द्र1. I. यदेक 2. I. L. °मऊएहिं 3. L नलिनीकम 4. A. drops. दार्शन्तिके वस्तुसंवन्धस्याभावः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org