________________
अ. १. सू. १० ]
काव्यानुशासनम्
तत्र सतोऽपि सामान्यस्यानिबन्धो यथा - मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमेषु, फलस्याशोकेषु । द्रव्यस्य यथाकृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथा— कुन्दकुड्मलानां कामिदन्तानां च कामिदन्तानां च रक्तत्वस्य, मालत्या बसन्त इत्यादि । अनिबन्धः इति पूर्वस्मात्प्रत्येकमभिसंबध्यते । मालत्या वसन्तेsनिबन्धो यथा
मालतीमुखत्रो विकासी पुष्पसंपदाम्
आश्चर्य जातिहीनस्य कथं सुमनसः प्रियाः ॥ ६१ ॥ L पुष्पफलस्य चन्दनद्रुमेष्वनिबन्धो यथा-
यद्यपि चन्दनविपी विधिना फलकुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥ ६२ ॥ [ शा. प. भट्टादित्यस्य ]
फलस्याशोकेष्वनिबन्धो यथा
दैवायत्ते हि फलें किं क्रियतामेतदत्र तु वदामः । नाशोकस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः ॥ ६३ ॥ [ कृष्णपक्षे ज्योत्स्नाया अनिबन्धो यथा---- ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः । बलभद्र प्रलम्बनौ पक्षाविवसितासितौ ॥ ६४ ॥ [ शुक्लपक्षे त्वन्धकारस्यानिबन्धो यथा
मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुक्रयोः । कः शुक्रतां यातो यशः पुण्यैरवाप्यते ॥ ६५ ॥ [
1
1. A. तांभः सतैः. B. तांभः सभैः C. तांतः सभैः
Jain Education International
]
कुन्दकुड्मलानां कामिदन्तानां च रक्तत्वस्यानिबन्धो यथा
द्योतितान्तःप्रभैः कुन्दकुड्मलाग्रदतः स्मितैः । स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ ६६ ॥
]
[ शि. व. स. २. श्लो. ७ ]
For Private & Personal Use Only
1
૨૧
ܪ
१५
२०
२५.
www.jainelibrary.org