________________
११८) भ. ६ सू. ६] काव्यानुशासनम्
३५३ अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्रवाककुचाः । राजन्ति हंसवसनाः सम्प्रति वापीविलासिन्यः ॥५४३॥
[रु. ८-४५.] इदमुभयावयवमित्यादि । ते न लक्षिताः। उक्तलक्षणेनैव संगृहीतत्वात् । एवंविधवैचित्र्यसहस्रसंभवाच्चातिप्रसङ्गः स्यात् । यदाह(36) न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिडानं दर्शितं धीरैरनुक्तमनुमीयतामिति ॥
[का. द. परि. २. श्लो. ९६] ११८) इष्टार्थसिद्धयै दृष्टान्तो निदर्शनम् ॥६॥
इष्टस्य सामान्यरूपस्य विशेषरूपस्य वा प्राकरणिकस्यार्थस्य १० सिद्धयै यो दृष्टान्तः स निदर्श्यते । प्राकरणिकोऽर्थोऽत्रेति निदर्शनम् । यथा
होइ न गुणाणुराओ जडाण णवरं पसिद्धिसरणाण । किर पण्हुवइ ससिमणी चंदे ण पियामुहे दिवे ॥५४४॥
3
... इष्टस्येति । उत्तरत्र विशेषस्य सामान्येन समर्थनेऽर्थान्तरन्यासत्वं वक्ष्यत इत्यत्रार्थादर्थस्य सामान्यरूपस्य विशेषरूपस्य चेति लभ्यते ।
ननु चार्थान्तरन्यासोऽपि निदर्शनलक्षणेन संग्रहीष्यते । किं तस्य पृथग्लक्षणकरणेनेत्याशङ्कयाह-यो दृष्टान्त इति । दृष्टोऽन्तो निश्चयो यत्र स दृष्टान्तः । निश्चयश्च विशेषादेव संभवतीति विशेषरूप एवासौ । तेन (151) २० 'यत्र सामान्यस्य विशेषस्य वा विशेषेण समर्थनं तनिदर्शनम् । यत्र तु विशेषस्य सामान्येन समर्थनं सोऽर्थान्तरन्यासः' इति विवेक उपपद्यते ।
होइ न गुणाणुराओ इति । अत्र सामान्य विशेषेण साध्यते । I. I.. ग्रहणेनैव 2. L. ण 3. L. °वई 4. N. उत्पद्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org