SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३५२ काव्यानुशासनम् [१९७) अ. ६ सः ५. विद्या वगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥५३७॥ ५ . यत्र चैकत्रविषये आरोप्यं श्रौतं विषयान्तरे तु गम्यं तदप्येकविषयम् । यथा जस्स रणंतेउरए करे कुणंतस्स मंडलागलयं । रससंमुही वि सहसा परम्मुही होइ रिउसेणा ॥५३८॥ अत्र रणस्यान्तःपुरत्वारोपः श्रौतः, मण्डलामलताया नायिकात्वं रिपुसेनायाश्च प्रतिनायिकात्वमर्थसामर्थ्यादवसीयते । अनेकविषयम् , यथा-- यस्या बीजमहंकृतिर्गुरुतरो मूलं ममेति ग्रहो नित्यत्वस्मृतिरकुरः सुतसुदृज्जात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्चरणार्हणापरशुना तृष्णालता ल्यताम् ॥५३९॥ १० यथा वाइन्द्रस्त्वं तव बाहू जयलक्ष्मीद्वारतोरणस्तम्भौ । खड्डः कृतान्तरसना रसना च सरस्वती राजन् ॥५४०॥ एवं च येऽन्ये रूपकप्रभेदा वर्ण्यन्ते । यथाललना: सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः । अधरदैलैश्च तासां नवबिसनालानि बाहुलताः ॥५४१॥ [रु. का. ८-४३] इदं सहजावयवं रूपकम् । गजो नगः कुथा मेघाः शृङ्खलाः पन्नगा अपि । यन्ता सिंहोऽभिशोभन्ते भ्रमरा हरिणास्तथा ॥५४२॥ [ वा . ] इदमाहार्यावयवम् । 1. I. पि 2. I. adds च २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy