________________
११७) अ. ६. सू.] कामावलसतम्
३५१ विनिद्रं यच्चान्तः स्वपिति तदहो वेत्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥५३६॥
यत्र चैकस्मिन् विषयेऽनेकान्यारोप्याणि, तदप्येकविषयम् । यथा--
सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म तर्सरहसामुल्लासनावासभूः । प्रेमलतिकेति । प्रेमैव लतिकेति । मयूरव्यंसकादित्वाद् एक्शन्दलोपी समासः ।
ननु व्याघ्रादिद्वारेण इक्शन्द्रलोकी समासो लुप्तोपमायां दृश्यते । ततयोभयप्राप्तेरवश्यं भावित्वाद्वक्ष्यमाणसन्देहसङ्करः प्राप्नोति । उच्यते यत्रान्यतर- १. परिग्रहे साधकप्रमाणाभावस्तदितरस्य वा परिहारे न स्याद्वाधकं प्रमाण तत्रैवोभयप्रसक्तिरनिवार्येति स एव सन्देहसंकरालङ्कारस्य विषयो वक्ष्यते । इह तु लतायाः सेचनमानुकूल्यादारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्ति तत्संकराशङ्का न कार्या । एवं बाधकेनापि प्रमाणेन सन्देहांशापर्वतनादपरांशप्रतिष्ठायां निरवकाशतैव सन्देहस्य । यथा
मधुसुरभिणि षट्पदेन पुष्पे मुख इव साललतावधूचुचुम्बे। ५४० [ ]
अत्र साललता वधूरिव, मुख इव पुष्पे मधुकरेण चुम्ब्यते स्म, इति विवक्षायामिवशब्दद्वयेन वाक्यार्थासंगतिर्बाधकं प्रमाणं समासे लुप्तोपमायाः, न तु साललता वधूगुणयोगिनी मुख इव षट्पदेन चुचुम्बे इति रूपकस्य । तथा हि मुख इव पुष्प इत्यत्र सदृशस्य पुष्पस्य प्रतिपत्तौ मुखाधीयमानविशेषता २० पुष्पाश्रिता पूर्वमेव प्रतीतो रस्यतयोपारोहति । तेन मुखसामर्थ्याक्षिप्तया वध्वा कयापि भवितव्यमिति । सात्र लतामिधीयते। तस्मालतैव वधूरित्याजसी रूपके प्रतिपत्तिः । उपमाप्रतिपत्तेस्त्वनाजसत्वं मुखोपमितिसामर्थ्याक्षिप्तपुष्पगतरूपविशेषानुपयोगित्वात् । तथा चात्रोपमेये पुष्पविशेष मुखोपमितिसामर्थ्याक्षिप्ते चुम्बनाधारत्वादौ न साललताया उपयोगोऽस्ति, वध्वा एव तत्रोपयोगित्वात् । तेन वधूरत्र प्रधानम्, तदुपयोगिनी तु साललतैव वधूरित्यनया रूपकच्छायया संगतिः प्रतिपद्यत इति । तस्माद्यत्र विशेषावसाये निमित्तमस्ति, तत्र रूपर्क समासाभिहितोपसा वान्यत्र संकर इति । ___ सौन्दर्यस्येति । अत्र तरङ्गिण्यादेरारोप्यस्य प्रियलक्षण एक एव विषयः । रहसामिति हास्थानाम् । ____ 1. A, drops मस्ति तत् 2. A. drops न तु सा
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.