________________
३५०
काव्यानुशासनम् [११७) अ. ६ स. ५ ऽतथाभूतेऽपि तथात्वेनाध्यवसायों रूपयत्येकतां नयतीति रूपकम् । आरोप्यमाणरूपेणारोपविषयस्य रूपवतः क्रियमाणत्वात् । सादृश्यग्रहण कार्यकारणभावादिनिमित्तान्तरव्युदासार्थम् । तेनायुश्रुतमित्यादौ न रूपकम् । भेदग्रहणमभेदारोपनिरासार्थम् । तत्र ह्यतिशयोक्तिर्वक्ष्यते । तच्च-एकमनेकं चारोपस्य विषयो यत्र तत्तथा ।
तत्रैकविषयम् , यथाकुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीः कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् ।
तथात्वेनाध्यवसाय इति । 'मुखं चन्द्रः' इत्यादौ गौणीवृत्तिविषय. १० तयेत्यर्थः । तथा हि-उपमेयशब्दो धर्मिवाची । द्वितीयेनोपमानशब्देन तथाभूते
नानुपपद्यमानसामानाधिकरण्यस्तस्यैवोपमानपदस्य स्वामिधेयाविनाभूतगुणवृत्तिता नियमयति । ततश्च सामानाधिकरण्यमप्युपपद्यते । अत एव च भेदेऽप्यभेदप्रतीतिरिय नापन्यायः । तथा यज्ञाते भेदे किलाभेदप्रतीतिरेव यत्र, तन्मिथ्या
ज्ञानम् । यथा शुक्तिकायां रजतप्रतीतिः । तथा भेदे ज्ञातेऽपि यत्राभेदप्रती५ तिरिव सोपमा । भेदे ज्ञातेऽप्यामुखे किलांभेदप्रतीतो संजातायामपि पश्चाद्
यत्रैवंविधे विशिष्टे सादृश्ये विश्रान्तिस्तद्रपकम् । अन्यथा भेदेऽप्यमेदप्रतीतावन्याय एव स्यात् । ततश्च मिथ्याज्ञानस्यालक्षाररूपत्वं कथमुच्येत । अत्र च केचिच्छन्दारोपपूर्वकमारोपं ब्रुवते । अपरे विपर्ययम् । अन्ये योगपर्छनोभयम् । एष एव च युक्तः पक्ष इत्याहुः । तथा हि(149) शब्दोपचारात्ताद्रप्यं रूपके कैश्चिदुच्यते ।
ताप्यारोपतस्त्वन्यैः शब्दारोपोऽत्र कथ्यते ॥ [ ] (150) उपमानगुणैस्तुल्यानुपमेयगतान् गुणान् ।
पश्यतां युगपद्भाति तत्र तच्छब्दरूपता ॥ [ तत्रेत्युपमैये । तच्छब्देति । उपमानशब्दारोप उपमानरूपारोपश्च । 1. N. स्त्वन्यानु 2. N. गुणान् 3. A. drops मानशब्दारोप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org