SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [११६) अ. ६. सू. ४ अत्र यथेष्टं विशेषणैरुपमेयं परिकल्प्य तादृशमेव सिद्धमुपमानमुपात्तमिति कल्पितोपमेत्यादौ । आसां हि प्रथल्लक्षणकरण एवंविध. वैचित्र्यसहस्रसंभवादतिप्रसङ्गः स्यादिति । ११६) असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा ॥४॥ प्राकरणिकेऽर्थेऽसन्तो ये धर्मा गुणक्रियालक्षणास्तदभावलक्षणा वा तेषां सम्भावनं तद्योगोत्प्रेक्षणमुत्प्रेक्षा । सा च इव-मन्ये-शङ्के-ध्रुवं प्रायो नूनम् , इत्यादिभिः शन्दैोत्यते । यथा बलं जगद्धंसनरक्षणक्षम क्षमा च किं संगमके कृतागसि । इतीव संचित्य विमुच्य मानसं रुषेवरोषस्तव नाथ निर्ययो ।५२७ ] अत्र रोषलक्षणस्य गुणस्योत्प्रेक्षा । असन्तोषादिवाकृष्टकर्णयोः प्राप्तशासनः । स्वधाम कामिनोनेत्रे प्रसारयति मन्मथः ॥५२८॥ [ अत्र संतोषगुणाभावस्य । वियति विसर्पतीव कुमुदेषु बहूभवतीव योषिताम् । प्रतिफलतीव जरठशरकाण्डविपाण्डुषु गण्डभित्तिषु ॥ अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥५२९॥ अत्र क्रियायाः । तदभावलक्षणा इति । गुणक्रियाभावलक्षणाः । - तद्योगोत्प्रेक्षणमिति । अन्यधर्माणां स्वधर्मीभूताद्वस्तुन उत्कलितानां रसभावाद्यमिव्यक्त्यनुमुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणमित्यर्थः । हृद्यग्रहणानुवृत्तेलोंकातिक्रान्तगोचरत्वमस्या अभ्यनुज्ञातमेव । तेन यत्र कुतश्चिनिमित्ताल्लौकिक्येव धर्माणां संभावना, न तत्रोत्प्रेक्षा । न हि 'भारं वहतीव पुंगवः', 'पयो ददातीव स्त्रीगवी' इत्युत्प्रेक्षा प्रवर्तते, लोकातिक्रान्तगोचराया एव संभावनाया उत्प्रेक्षागोचरत्वात् । - 1. I. °मेत्यादि 2. I. omits असन्तः २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy