________________
११५) अ. ६ सू. ३ ] काव्यानुशासनम्
अत्र समासे धर्मस्येवस्य च लोपः । यथा वाअरातिविक्रमालोक-विकस्वरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥५१५॥
अत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानमाचरतीत्यात्मा-उपमेयः। स चेवादिश्च लुप्तः । आचारलक्षणश्च धर्मः। क्यन्प्रत्ययेन साक्षादभि- ५ हितः । तथा
सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ॥५१६॥
अत्र नामधातुवृत्तौ धर्मस्योपमावाचकस्य च लोपः। त्रिलोपे १० यथा-मृगनयनेति । मृगस्य नयने इति प्रथमं तत्पुरुषस्ततो मृगनयने इव नयने यस्या इति-उष्टमुखादित्वाद् बहुव्रीहिः । अत्र गुणधोतकोपमानशब्दानां लोपः । यदा तु मृगशब्द एव लक्षणया मृगनयनवृत्तिस्तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयो न त्वस्योपमासमासस्येति नास्ति स्थानमुपमायास्त्रिलोपिन्याः । केचित्तु १५.. अयःशूलेनान्विच्छत्यायःशूलिक इत्यादौ क्रूराचारोपमेये तैष्ण्यधर्मे वा-आदीनां लोपे त्रिलोपिनीमुपमामुदाहरन्ति,तन युक्तम्! क्रूरस्याचारस्यार्थान्वेषणोपायादेरयाशूलतयाध्यवसानादतिशयोक्तिरेवेयम् । एवं दाण्डा- .. जिनिक इत्यादिष्वपि द्रष्टव्यम् ।
कराचारोपमेयेति । तथा यत्रायःशूलमुपमानम् , अर्थान्वेषणोपायः २० कश्चिदुपमेयः, तीक्ष्णत्वादिः साधारणो धर्मः, उपमानोपमेयभावश्चेति चतुष्टयमव- . गम्यते । तन्मध्याच शब्दस्पृष्टमुपमानमयःशूलेनेति शिष्टस्य तु त्रितयस्यार्थसामादवगतिरिति ।
दाण्डानिनिक इत्यादिष्वपीति । तथा हि दम्भस्य दण्डाजिन. तयाध्यवतितस्य जीवनक्रियाकरणत्वं दण्डाजिनेनार्थानन्विच्छति. दम्भेन जीवतीति .. दाण्डाजिनिकः । दाम्भिक इत्यर्थः । एवं पावेनार्थानन्विच्छति-अज़पायेन ..
1.I..कयप्रत्ययः 2. I,. रेवायम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org