________________
काव्यानुशासनम् [११५) अ. ६ सू. ३ पूर्णेन्दुरेवेति ईषदपरिसमाप्तिविशिष्टेऽर्थे कल्पबादीनां स्मरणात् । ईषदपरिसमाप्तः पूर्णेन्दुरिति वचनवृत्त्या यद्यपि रूपकच्छाया भजते तथापि प्रातीतिकेन रूपेणोपमैव । तथा ह्यत्र पूर्णेन्दुसदृशं वदनमित्ययमर्थः प्रतीयते, न त्वीषदपरिसमाप्तः पूर्णेन्दुरिति । यथा वा
सूर्यायति सुधारश्मिमनाथति मृतायते । मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकीयति ॥५१२॥ [ ]
अत्र नामधातुवृत्तौ कर्माधाराभ्यां क्यनिकर्तुः किपिक्यडि च इवलोप: । द्विलोपे, यथा
ढंढुल्लिंतु मरीहसि कंटयकलिआई केअइवणाई । मालइकुसुमसरिच्छं भमर भमंतो न पाविहिसि ॥५१३॥ अत्र कुसुमसदृक्षमिति समासे धर्मस्योपमानस्य च लोपः । तथापरिपन्थिमनोराज्यशतैरपि दुराक्रमः। संपरायप्रवृत्तोऽसौ राजते राजकुञ्जरः ॥५१४॥[ ] वचनवृत्त्येति । सामानाधिकरण्यरूपया । ननु कथमीषदपरिसमाप्तिर्घटते यावता पूर्णेन्दुशब्देन पूर्णेन्दुजातिरुच्यते तदाधारो वा द्रव्यम् । तत्र जातिस्तावदेका निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता । द्रव्यमपि यत्तया संबद्धं तत्सर्वतः संपूर्णत्वात्समाप्तमेव । तस्मादसंभव एवास्याः । सामानाधि. करण्यमपि पूर्णेन्दुकल्पं वदनर्मिति वदनशब्देन प्राप्नोति तस्यार्थान्तरवाचित्वा. भैष दोषः । इह शब्दादुचरिताद् द्वयं प्रतीयते । शब्दाथों जातिव्यं वा । अभिधेयसंबन्धेन वा अशब्दार्थभूता अपि गुणाः । यत्र चैतदुभयमस्ति तत्र परिसमाप्तिः । यत्र त्वन्यतरनास्ति तत्रेषदपरिसमाप्तिः। तत्रेह पूर्णेन्दुजातिहीने आह्वादनादिगुणहीने वा द्रव्ये वर्तत इत्युपपद्यते । ईषदपरिसमाप्तिः । सामानाधिकरण्यमुपपद्यत एव कयं यदा तावत्पूर्णेन्दुजातिहीने केनचित्साधयेण वदनशब्दाभिधेयेऽर्थे वर्तित्वात्पूर्णेन्दुशब्दः कल्पप्रत्ययमुत्पादयति तदा वदनशब्देन सामानाधिकरण्यं भवति । उभयोरेकार्थवृत्तित्वात् । यदा तु गुणहीने पूर्णेन्दुजातीय एष पूर्णेन्दुशब्दस्तदापि यथा गौर्वाहीक इति । सामानाधिकरण्यं तथा भविष्यति । गुणहीनो हि पूर्णेन्दुः पूर्णेन्दुकल्पशब्देनोच्यते तेन च तुल्यं वदनमिति तदपि पूर्णेन्दुकल्पशब्देनाभिधायिष्यते ।
1. I कर्मधारयोः 2. I. मरीहिसि 3. P. मालय L मालई 4. A. drops agafalat
१५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org